SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Main Aradhana Kendra सूत्रकृताङ्कं शीलाङ्काचार्ययवृ चियुतं ॥१२१॥ www.kobatirth.org ॥ अथ पञ्चमं नरकविभक्त्यध्ययनं प्रारभ्यते ॥ Acharya Shri Kailashsagaanmandir 61410 उक्तं चतुर्थमध्ययनं, साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः, इहाद्ये अध्ययने स्वसमयपरसमयप्ररूपणाऽभिहिता, तदनन्तरं स्वसमये बोधो विधेय इत्येतद्वितीयेऽध्ययनेऽभिहितं, सम्बुद्धेन चानुकूलप्रतिकूला उपसर्गाः सम्यक् सोढव्या इत्येतत्तृतीयेऽध्ययने प्रतिपादितं, तथा सम्बुद्धेनैव स्त्रीपरीषहश्च सम्यगेव सोढव्य इत्येतच्चतुर्थेऽध्ययने प्रतिपादितं साम्प्रतनुपसर्गभीरोः स्त्रीवशगस्यावश्यं नरकपातो भवति तत्र च यादृक्षा वेदनाः प्रादुर्भवन्ति ता अनेनाध्ययनेन प्रतिपाद्यन्ते, तदनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि उपक्रमादीनि वक्तव्यानि, तत्रोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारथ, तत्राध्ययनार्थाधिकारो नियुक्तिकारेण प्रागेवाभिहितः, तद्यथा - 'उवसग्गभीरुणो धीवसस्स नरएस होज्ज उववाओ' इत्यनेन, उद्देशार्थाधिकारस्तु निर्युक्तिकृता नाभिहितः, अध्ययनार्थाधिकारान्तर्गतखादिति । साम्प्रतं निक्षेपः, स च त्रिविधः, ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनं, नामनिष्पन्ने तु नरकविभक्तिरिति द्विपदं नाम, तत्र नरकपदनिक्षेपार्थं निर्युक्तिकृदाह णिरए छक्कं दव्वं णिरया उ इहेब जे भवे असुभा । खेत्तं णिरओगासो कालो णिरएस चैव ठिती ॥ ६४ ॥ भावे उ णिरयजीवा कम्मुदओ चेव णिरयपाओगो । सोऊण णिरयदुक्खं तवचरणे होइ जइयव्वं ॥ ६५ ॥ For Private And Personal ५ नरकवि भक्त्यध्य. उद्देशः १ ॥१२१॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy