SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri M a in Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarri fyanmandir च मोक्षमार्ग प्रसाधयन्तीति दर्शयति-'इह परलोकचिन्तायाम् एकेषां केषाश्चिद् 'आख्यातं भाषितं, यथा किमनया शिर| स्तुण्डमुण्डनादिकया क्रियया ?, परं गुरोरनुग्रहात्परमाक्षरावाप्तिस्तद्दीक्षावाप्तिर्वा यदि भवति ततो मोक्षो भवतीत्येवं भाषमाणास्ते न त्राणाय भवन्तीति । ये तु त्रातुं समर्थास्तान्पश्चार्द्धन दर्शयति-'अपरिग्रहा' न विद्यते धर्मोपकरणाहते शरीरोपभोगाय खल्पोऽपि परिग्रहो येषां ते अपरिग्रहाः, तथा न विद्यते सावद्य आरम्भो येषां तेऽनारम्भाः , ते चैवंभूताः कर्मलघवः स्वयं यानपात्रकल्पाः संसारमहोदधेर्जन्तृत्तारणसमस्तान् 'भिक्षुः'भिक्षणशील उद्देशिकाद्यपरिभोजी 'त्राणं शरणं परिः-समन्ताबजेद्-गच्छेदिति ॥३॥ कथं पुनस्तेनापरिग्रहेणानारम्भेण च वर्तनीयमित्येतद्दर्शयितुमाह-गृहस्थैः परिग्रहारम्भद्वारेणाऽऽ|त्मार्थ ये निष्पादिता ओदनादयस्ते कृता उच्यन्ते तेषु कृतेषु-परकृतेषु परनिष्ठितेष्वित्यर्थः, अनेन च षोडशोद्गमदोषपरिहारः | सूचितः, तदेवमुद्गमदोषरहितं ग्रस्थत इति ग्रासः-आहारस्तमेवंभूतम् 'अन्वेषयेत्' मृगयेत् याचेयेदित्यर्थः, तथा 'विद्वान् । संयमकरणैकनिपुणः परैराशंसादोषरहितैनिःश्रेयसबुद्ध्या दत्तमिति, अनेन पोडशोत्पादनदोषाः परिगृहीता द्रष्टव्याः, तदेवम्भूते दौत्यधात्रीनिमित्तादिदोषरहिते आहारे स भिक्षुः 'एषणां' ग्रहणैषणां 'चरेद' अनुतिष्ठेदिति, अनेनापि दशैषणादोषाः परिगृहीता इति मन्तव्यं, तथा 'अगृद्धः अनध्युपपन्नोऽमृच्छितस्तस्मिन्नाहारे रागद्वेषविनमुक्तः, अनेनापि च ग्रासैषणादोषाः पञ्च निरस्ता अवसेयाः, स एवम्भूतो भिक्षुः परेषामपमानं परावमदर्शिलं 'परिवर्जयेत् परित्यजेत् , न तपोमदं ज्ञानमदं च कुर्या| दिति भावः॥४॥ एवं नियुक्तिकारेणोद्देशकार्थाधिकाराभिहितं 'किचुवमा य चउत्थे' इत्येतत्प्रदर्येदानीं परवादिमतमेवोद्देशार्थाधिकाराभिहितं दर्शयितुमाह सूत्रकृ. ९ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy