________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डे-- मुक्तोऽभवत्तस्य पिताऽपि विष्णो
श्रुत्वा बलेनैव मम प्रसादात् ॥ शुश्रूषया तस्य विलक्षणस्य
विद्यामवाप्याऽऽशु विमुक्तिमाप ॥ ४६ ॥ पितरस्तस्य परात्मविद्यया
नरकादेव समुद्धृता हरे॥ कुलमप्यस्य पवित्रतां गतं
पृथिवी पुण्यवती विशेषतः ॥४७॥ भुक्ता पुरा तेन महानुभाव
चण्डालकन्याऽपि दिवं प्रविष्टा ॥ नेष्टा नरा भूधर नाकमुष्ठे
विद्याबलेनास्य सुखं प्रयाताः॥४८॥ शृणुष्व चान्यत्परया मुदा हरे
तवाहमद्याभिवदामि सद्गुरोः॥ विलक्षणस्याऽऽत्मविदो महात्मनः
शरीरशुश्रूषण महाफलम् ॥४९॥ पुरा महापापबलात्पुरातना
निहत्य वेश्या सुभगाभिधा पतीन् ॥ धनानि तेषामभिवाञ्छया सदा
हरे समादाय मुहृजनैरपि ॥ ५० ॥ ॥ ४४ ॥ ४५ ॥ ४६ ॥ ४७ ॥ ४८ ॥ ४२ ॥ ५० ॥ स्वदासवगैः सह पुत्रकैः स्वकै
स्तथाऽम्बया मुक्तवती महासुखम् ॥
ङ. भ्रष्टा ।
For Private And Personal Use Only