________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः७]]
सूतसंहिता। पुनः काष्ठं तृणं तोयं शाकमूलफलानि च ॥ दिने दिने समादाय गुरवे दत्तवान्मुदा ॥ ३८ ॥ तस्य गो रक्षणं चापि शशिवर्णः समाहितः॥ अकरोत्तेन पापानि नष्टानि सुबहूनि च ॥ ३९ ॥ पुनस्तस्य च शुश्रूषां पादमर्दनमच्युत ॥ तैलाभ्यङ्गं च वस्त्रादिशोधनं चाकरोन्मुदा ॥४०॥ तेनैव हेतुनाऽप्यस्य शशिवर्णस्य केशव ॥ महत्तराणि नष्टानि पापानि सुबहूनि च ॥४१॥ ततः प्रसन्नः सर्वज्ञो महायोगीश्वरेश्वरः ॥ स्वभुक्तशेषं कारुण्याददौ तस्मै प्रियेण सः ॥४२॥
तदुक्तशेषामृतपानशान्तसर्वाघतापो गुरुमादरेण ॥
नत्वाऽथ शुश्रूषणमस्य शिष्यश्चक्रे सदाऽतीव महानुभावः ॥४३॥ ॥ ३८ ॥ ३९ ॥ ४० ॥ ४१ ॥ ४२ ॥ ४३ ॥ ततः प्रसन्नो गुरुरस्य विहा
न्स्वशिष्यमेनं शशिवर्णसंज्ञम् ॥ प्रनष्टपापं परिशुद्धचित्तं
प्रगृह्य भूत्या सितयाऽस्य देहम् ॥ ४४ ॥ उद्धूल्य तस्मै प्रददौ महात्मा
वेदान्तविज्ञानसुनिश्चितार्थम् ॥ बुद्ध्वा हृषीकेश मम प्रसादा
च्छिष्योऽपि मामात्मतयाऽपरोक्षम् ॥४५॥
१ ङ. 'नि निष्ठासु च । २ क. 'दा तीव्रम।
For Private And Personal Use Only