________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९६
तात्पर्यदीपिकासमेता
[२ज्ञानयोगखण्डे
सर्वत्रावस्थितं शान्तं न प्रपश्यन्ति शंकरम् ॥ ज्ञानचक्षुर्विहीनत्वादहो मायाबलं मुने ॥ ६० ॥ आत्मस्थं यः शिवं त्यक्त्वा बहिस्थं यजते शिवम् ॥ हस्तस्थं पिण्डमुत्सृज्य लिहेत्कूर्परमात्मनः ॥ ६१ ॥ उक्त योगासमर्थानामपि लघुप्रशस्तं चोपायमाह - ज्ञानयोगेति ॥ ५८ ॥ ।। ५९ ।। ६० ।। ६१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
शिवमात्मनि पश्यन्ति प्रतिमासु न योगिनः ॥ अज्ञानां भावनार्थाय प्रतिमाः परिकल्पिताः ॥ ६२ ॥ प्रतिमानामुपयोगमाह - अज्ञानामिति ॥ ६२ ॥
अपूर्वानपरं ब्रह्म स्वात्मानं सत्यमद्वयम् ॥ प्रज्ञानघनमानन्दं यः पश्यति स पश्यति ॥ ६३ ॥ अपूर्वं कारणरहितमनपरं कार्यरहितं निष्कलमखण्डमद्रयं सच्चिदानन्दैकरसमित्यर्थः । स पश्यतीति । तदीयमेव दर्शनं फलवदित्यर्थः ॥ ६३ ॥ सर्वभूतस्थमात्मानं विशुद्धज्ञानदेहिनम् ॥ स्वात्मन्यपश्यन्बाह्येषु पश्यन्नपि न पश्यति ॥ ६४ ॥ अन्तर्योगाभावे केवलबहिर्योगस्य वैफल्यमाह - सर्वभूतेति ॥ ६४ ॥ देवतां महतीमन्यामुपास्ते स्वात्मनो नरः ॥
न स वेद परं तत्त्वमथ योऽन्यामिति श्रुतिः ॥६५॥ महतीं देवतां परशिवात्मिकां स्वात्मनः सकाशादन्यां य उपास्ते भेदेन स मूढः पशुरित्यर्थः । अथ योऽन्यामिति श्रुतिरिति । वाजसनेयके हि श्रूयते - " अथ योsन्यां देवतामुपास्ते, अन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं ख देवानां यथा ह वै बहवः पशवो मनुष्यं मुख्युरेवमेकः पुरुषो देवान्भुनक्त्ये कस्मिन्नेव पशावादीयमानेऽप्रियं भवति किमु बहुषु । तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः" इति ॥ ६५ ॥
I
नाडीपुत्रं सदासारं नरभावं महामुने ॥ समुत्सृज्याऽऽत्मनाऽऽत्मानमहमित्यवधारय ॥ ६६ ॥
१ घ. 'वो मानुष्यं भेजुरे' |
For Private And Personal Use Only