SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अध्यायः ११] सूतसंहिता | भावतीर्थ परं तीर्थं प्रमाणं सर्वकर्मसु ॥ अन्यथाऽऽलिङ्गयते कान्ता भावेन दुहिताऽन्यथा ॥ ५३ ॥ Acharya Shri Kailassagarsuri Gyanmandir १९५ ननु बाह्यानि तीर्थानि प्रत्यक्षतो निरीक्ष्यन्त आन्तराणि तु भावनामात्रसिद्धानीति कथं ततस्तेषामुत्कर्ष इत्यत आह-भावतीर्थमिति । भावः शास्त्रप्रतिपादितेषु प्राकृततीर्थेष्वास्तिक्पबुद्धिः । सा च संस.रोत्तरणकारणतया तरन्त्यनेनेति तीर्थं तद्विषयीकृतस्यार्थस्य परमार्थत्वात्प्रमाणं च । बाह्यतीर्थस्नानदानादिषु सर्वेष्वपि कर्मसु सत्येव भावे फलसाधनता नान्यथेति तस्य सर्वत्र प्रमाणतेत्यर्थः । कर्मण एकरूपत्वेऽपि भावभेदस्यैव निषेधानिषेधवैषम्यहेतुत्वमुदाहरति । अन्यथाऽऽलिङ्गयत इति ॥ ५३ ॥ तीर्थानि तोयपूर्णानि देवान्काष्ठादिनिर्मितान् ॥ योगिनो न प्रपद्यन्ते स्वात्मप्रत्ययकारिणः ॥ ५४ ॥ बहिस्तीर्थात्परं तीर्थमन्तस्तीर्थे महामुने ॥ आत्मतीर्थ परं तीर्थमन्यतीर्थ निरर्थकम् ॥ ५५ ॥ चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुध्यति ॥ शतशोऽपि जलैर्धीतं सुराभाण्डमिवाशुचि ॥ ५६ ॥ स्वात्मप्रत्ययेति । स्वात्मन्येव शास्त्रादीरिततीर्थादिविश्वासवन्त इत्यर्थः ॥ ।। ५४ ।। ५५ ।। ५६ ।। विषुवायनकालेषु ग्रहणे चान्तरे सदा ॥ वाराणस्यादिके स्थाने स्वात्वा शुद्धो भवेन्नरः ॥ ५७ ॥ अतः प्रागुक्तपुण्यैकालेषु प्रागुक्ततीर्थस्नानेषु चित्तस्थापनलक्षणमेव स्नानं कार्यमित्याह - विषुवेति ॥ ५७ ॥ For Private And Personal Use Only ज्ञानयोगपराणां तु पादप्रक्षालितं जलम् ॥ पापशुद्वयर्थमज्ञानां तत्तीर्थे मुनिसत्तम ॥ ५८ ॥ तीर्थे दाने तपोयज्ञे काष्ठे पाषाणके सदा ॥ शिवं पश्यति मूढात्मा शिवो देहे प्रतिष्ठितः ॥ ५९ ॥ १ क. ख. ग. 'षु प्रकृ । २ ख षेध ं । ३ ग. स्त्रोदित' । ४ ग ण्यलोकेषु ।
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy