________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्याय: ८ ]
सूतसंहिता ।
अमावास्यां मुनिश्रेष्ठ ब्राह्मणायानसूयवे ॥ अन्नं दद्यान्महादेवं समुद्दिश्य समाहितः ॥ ८ ॥ सोऽक्षयं फलमाप्रोति महादेवसमो भवेत् ॥ यस्तु कृष्णचतुर्दश्यां श्रद्धाभक्तिसमन्वितः ॥ ९ ॥ आराधयेद्विजमुखे महादेवं स मुच्यते ॥ त्रयोदश्यां तथा स्नात्वा ब्राह्मणं भोजयेन्मुदा ॥ १० ॥ ब्रह्मलोकमवाप्रोति ब्रह्मणा सह मुच्यते ॥ द्वादश्यां तु द्विजः स्रात्वा विष्णुमुद्दिश्य भक्तितः ॥११॥ ब्राह्मणाय विनीताय दद्यादन्नं समाहितः ॥ सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ १२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१६७
-
तिथिदेवताविशेषेणान्नदान फैलान्याह – अमावास्यामित्यादिना । अमावास्पापाम् । “कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया ॥ ८ ॥ ९ ॥ १० ॥ ॥ ११ ॥ १२ ॥
एकादश्यामुपोष्यैव द्वादश्यां पक्षयोरपि ॥ वासुदेवं समुद्दिश्य ब्राह्मणान्भोजयेन्नरः ॥ १३ ॥ सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति || दशम्यामिन्द्रमुद्दिश्य यो दद्याद्वाह्मणे शुचौ ॥ १४ ॥ अन्नं वा तण्डुलं वाऽपि स देवेन्द्रमवानुयात् ॥ नवम्यां धर्मराजानमुद्दिश्य ब्राह्मणे शुचौ ॥ अन्नं दद्याद्यथाशक्ति धर्मराजः प्रसीदति ॥ अष्टम्यां शंकरं पूज्य ब्राह्मणं भोजयेन्नरः || १६ || सर्वपापविनिर्मुक्तः शिवसायुज्यमाप्नुयात् ॥ सप्तम्यां चन्द्रमुद्दिश्य ब्राह्मणान्भोजयेद्विजः ॥ १७ ॥
१५ ॥
For Private And Personal Use Only
१. क्षय्यंफ। २ङ, मुखैर्महा ३ ग फलमाह । ४क. ख. ग. घ. 'ह्मणं भोज | ५. ह्मणं पूज ।