SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता- [रज्ञानयोगखण्डे (अथाष्टमोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि दानधर्मफलं मुने ॥ सर्वेषामेव दानानां विद्यादानं परं स्मृतम् ॥ १॥ विद्यया प्राणिनां मुक्तिस्तस्मात्तहानमुत्तमम् ॥ भूमिदानं च गोदानमर्थदानं तथैव च ॥२॥ कन्यादानं च मुख्यं स्यादन्नदानं तथैव च ॥ धनधान्यसमृदां यो भूमिं दद्याद्दिजाय सः ॥३॥ इह लोके सुखी भूत्वा प्रेय चाऽऽनन्यमश्नुते ॥ अरनिमात्रां वा भूमिं दद्याद्ब्रह्मविदे नरः ॥ ४॥ उक्तमायश्चित्तैः परिहृतमतिबन्धकपापजालस्य पुरुषस्य यैर्दानैर्धमैश्च यानि यानि फलानि प्राप्यन्ते तानि तानि वक्तुं प्रतिजानीते-अथात इति । यतः प्रतिबन्धकापगमे सत्येव साधनं स्वकार्ये समर्थमतः प्रायश्चित्तानन्तरमित्यर्थः ॥ १॥२॥ ३ ॥ ४ ॥ सर्वपापविनिर्मुक्तः संसारमतिवर्तते ॥ विनीतायोपसन्नाय विप्राय श्रद्वया युतः ॥५॥ यो दद्यादैदिकी विद्यां न स भूयोऽभिजायते ॥ यतये श्रद्धया नित्यमन्नं दद्याद्यथाबलम् ॥६॥ ब्रह्मलोकमवाप्नोति न पुनर्जायते भुवि ॥ मठं वा यतये दद्यान्न स भूयोऽभिजायते ॥ ७ ॥ विनीतायोपसन्नायेति । श्रूयते हि"तस्मै स विद्वानुपसन्नाय सम्यक्पशान्तचित्ताय शमान्विताय । येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम्" इति ॥ विषायेति त्रैवर्णिकोपलक्षणम् । विद्याग्रहणाधिकारविभागो हि गतखण्डसप्तमाध्याये "निवृत्तिधर्मनिष्ठस्तु ब्राह्मणः" इत्यत्रोपवर्णित इति ॥५॥६॥७॥ क. 'स्माद्दानमनुत्तमम् । २ ख. 'तैः प्र । ३ ग. ङ. पसंपन्ना। ४ क. दमान्विताय । घ. समन्विताय । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy