SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra सुदंसणाचरियम्मि ॥ ३ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (४) चतुर्थ श्रीमद्विजयवल्लभसूरीशान्तेवासि पं. ललितविजयचित्कोषीय मर्वाचीनं नाऽतिशुद्धं नाप्यशुद्धिग्रस्तमष्टादशाधिकशतपत्रात्मकम् । (५) पञ्चमं वर्द्धमान ( वढवाण) पुरसंस्थापितश्रीमद्विजयकेसरसूरिभाण्डागारीयं नवीनलेखप्रायं शुद्धयशुद्ध्युपेतमष्टादशोत्तरशतपत्रमयम् । (६) षष्ठं न्यायाम्भोनिधिजगद्विख्यातश्रीमद्विजयानन्द सूरीन्द्र सन्तानीय श्रीमन्मानविजयसम्बन्धिकं नवीनं शुद्धिमापन्नं द्वात्रिंशदुत्तरशतदलात्मकम् । (७) सप्तमं च स्तम्भन (खंभात ) पुरसंस्थित पुस्तकागारसत्कं ताडपत्रीयं पुस्तकं प्राचीनं प्रस्तुतग्रन्थकारसमकालीनमपूर्ण द्वात्रिंशदधिकशतद्वयपत्राङ्कितमवलोकनकृते लब्धम् । अस्मिन्पुस्तके पाठभेदो बहुधा दृश्यते कुत्रचित्पाठः समालोक्यते क्वचिच्च न मिलति किन्त्वस्माभिस्तु पूर्वोक्तानां पण्णां पुस्तकानां यथापाठं निजमत्यनुसारेण संशोधितमस्ति । अनुमीयते प्रायिकमेतद्ग्रन्थकारैः प्रथमतः संक्षेपतोऽयं ग्रन्थो रचितस्तत्पश्चात्सविस्तरतो दृष्टान्तान्वितः संस्कृत्य विनिर्मितोऽस्ति । एतत्पुस्तकसप्तकाधारेण संशोधितेऽप्यस्मिँश्चरित्रे प्रमादभ्रान्त्यादिदोषवशतो यत्र वचनाऽशुद्धिः स्खलनं वा भवेत् 'गच्छतः स्खलनं क्वापि भवत्येव प्रमादतः' 'भ्रान्तेः पुरुषदोषत्वात्' इति वचनात् । तत्तु गुणदोषविवेकनिपुणाः कोविदाः समीकुर्वन्त्वित्यभ्यर्थयते - सूरिप्रवरश्रीमद्विजयवल्लभसूरिमुख्य शिष्यतपोनिधिश्रीमद्विवेकविजयान्तेवासी संवत् १९८९ कार्त्तिकशुक्लाप्रतिपत् । मु० ब्यावर ( राजपूताना ) पं. उमङ्गविजयो गणी । For Private and Personal Use Only उपोद्घातः । ॥ ३ ॥
SR No.020764
Book TitleSudansana Chariyam
Original Sutra AuthorN/A
AuthorUmangvijay Gani
PublisherPushpchandra Kshemchandra Shah
Publication Year1932
Total Pages296
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy