SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१८१ ) भये महति हर्षे वा सम्प्राप्ते यो विचिन्तयेत् । कृत्यं न कुरुते वेगान्न स सन्तापमाप्नुयात् ॥ १२७६ । पापनाशाय विबुधैः कर्तव्याः सुहृदोऽमलाः । न तरत्यापदं कश्चिद् योऽत्र मित्रविवर्जितः ॥१२७७ ॥ यः पृष्ट्वा कुरुते कार्य प्रष्टव्यान् स्वान् हितान् गुरुन् । न तस्य जायते विनः कस्मिंश्चिदपि कर्मणि ॥ १२७८ ।। दुर्जनो जीयते युक्त्या विग्रहेण न धीमता । निपात्यते महावृक्षस्तत्समीपक्षितिक्षयात् ॥१२७९ ॥ किं कुलेन विशालेन विद्याहीनस्य देहिनः । अकुलीनोऽपि विद्यावान् विबुधैरपि पूज्यते ॥ १२८० ॥ यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः। चित्ते वाचि क्रियायां च साधूनामेकरूपता ॥ १२८१ ॥ स्वभावं नैव मुश्चन्ति सन्तः संसर्गतोऽसताम् । न त्यजन्ति रुतं मञ्जु काकसम्पर्कतः पिकाः ॥ १२८२ ॥ यथा परोपकारेषु नित्यं जागर्ति सजनः । तथा पराऽपकारेषु नित्यं जागर्ति दुर्जनः ॥१२८३ ॥ लोभाविष्टो नरो वित्तं वीक्षते न स आपदम् ।। दुग्धं पश्यति मार्जारो यथा न लगुडाहतिम् ॥ १२८४ ॥ जानीयात् सारे भृत्यान् बान्धवान् व्यसनागमे । आपत्कालेषु मित्राणि भार्या च विभवक्षये ॥१२८५ ॥ For Private And Personal Use Only
SR No.020763
Book TitleSubhashit Sangrah
Original Sutra AuthorN/A
AuthorSukhsagar
PublisherJinduttsuri Gyanbhandar
Publication Year1934
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy