SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुभगोदयस्तुतिः त्रिखण्डः खण्डान्ते कलितभुवनेश्यक्षरयुतश्चतुःपञ्चास्ते त्रय इति च पञ्चाक्षरमनुः ॥१९॥ पाठान्तराणि-(१) स्मरो। (२) ०श्चैते। (३) कलितभुवने ते क इति यः । (४) ०मनोः। [पञ्चा० = पक्षा०] । अत्र कूटत्रयस्य आन्त्यबीजत्रयं "त्रिखण्ड: खण्डान्ते कलितभुवनेश्यक्षरयुतः” इति उक्त्वा क्रमेण, चतुः-पञ्च-त्रिवर्णाः उक्ताः । पञ्चदशाक्षराः इति, स्मर = विद्धि इति अर्थः । ते त्रयः खण्डाः पक्षाक्षरमनुः इति च स्मर इति पूर्वेण अन्वयः (उपासक प्रति इयम् उक्तिः)। अत्र सर्वबीजानि स्मरपर्यायाणि एव अस्य स्वरोपासितत्वाद् इति ज्ञेयम् ॥१९॥ अथ मन्त्रखण्डत्रयं तेजस्त्रयमिति, तत्र मातृकालयं चेति निरूपणम् त्रिखण्डे त्वन्मन्त्रे शशिसवितृवयात्मकतया स्वराश्चन्द्र लोनाः सवितरि कलाः कादय इह । यकाराद्या वह्नावथ कषयुगं बैन्दवगृहे निलीनं सादाख्ये शिवयुवति नित्यैन्दवकले ॥२०॥ हे शिवयुवति ! त्वन्मन्त्रे त्रिखण्डात्मके क्रमेण, शशि-सवितृवहन्यात्मकतेजस्त्रयतया भाविते पश्चात्तेषु खण्डेषु मातृकाः निलीनाः इति भाविताः । यथा, शशिनि, अकारादि-षोडशस्वराः चन्द्रकलारूपेण; एवं सवितरि कादयः चतुर्विंशतिसंख्याकाः आद्यन्तद्विद्विरूपेण (कं भं, छं बं इत्यादि द्विद्विरूपेण) निलीनाः; वह्नौ पुनः यकारादि-दशकम् । सादाख्ये नित्यैन्दवकले बैन्दवगृहे तु कषयुगं क्षकाररूपं निलीनम् इति । एवं मन्त्रमातृकयोः ऐक्यं निरूपितम् ॥२०॥ For Private And Personal Use Only
SR No.020762
Book TitleSubhagoday Stuti
Original Sutra AuthorN/A
AuthorPrithvi K Agrawala, Rama Adhar Pathak
PublisherPrithvi Prakashan
Publication Year1984
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy