SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org भावबोधिनी टीकासहिता ततोऽभून्नागारं नृपतिदलमस्मात्त्रिवलयं 'चतुर्द्वाः प्राकार त्रितयमिदमेवाम्ब शरणम् ॥ १७ ॥ पाठा० - - ( १ ) चतुर्धा । ( २ ) चरणम् । Acharya Shri Kailassagarsuri Gyanmandir बिन्दोः त्रिकोण - तैः त्रिकोणैः त्रिभिः अपि अन्तर्दशारं -- तद्बहिः पुनः दशारं - तद्बहिः चतुर्दशारं - तदनन्तरम् अष्टदलपद्मं - तद्वहिः षोडशदलपद्मं - तद्बहिः वलयत्रयं तद्बहिः भूपुरत्रयम् इति । हे अम्ब ! ते गृहरूपं श्रीचक्रम् एव निरूपितम् ॥१७॥ अथ एतद्वरिवस्याप्रतिपादकतन्त्रप्रशंसा चतुःषष्टिस्तन्त्राण्यपि 'कुलमतं निन्दितमभूद् यदेतन्मिश्राख्यं मतमपि भवेन्निन्दित मह | शुभाख्याः पञ्चैताः श्रुतिसरणिसिद्धाः प्रकृतयो महाविद्यास्तासां भवति परमार्थो भगवती ॥। १८ ॥ पाठा०- (१) कुलनुतं निन्दितमिदं तदेतत् । ( २ ) परमार्था; परमार्थो भगवति । अथ पञ्चदशीमन्त्रोद्धारः - १३ कुलमतप्रतिपादक चतुष्षष्टितन्त्रसमूहः निन्द्यः एव मिश्राचारः अपि । हे भगवति । श्रुतिसिद्धशुभागमपञ्चकस्य पुनः ( सनक सनन्दन- सनत्कुमार- वसिष्ठ - शुक - नामकं संहितापञ्चकं पुनः ) वेदमार्गानुरुद्धत्वाद् विप्राचरणीयाः तदुदिताचाराः न अन्ये इति ॥ चतुष्पटितन्त्रनामानि सौन्दर्यलहरीव्याख्यायां लोल्ललक्ष्मीधरपण्डितकृतायां द्रष्टव्यानि ॥ १८ ॥ स्मरो मारो मारः स्मर इति 'परो मारमदनस्मरानङ्गाश्चेति स्मरमदनमाराः स्मर इति । For Private And Personal Use Only
SR No.020762
Book TitleSubhagoday Stuti
Original Sutra AuthorN/A
AuthorPrithvi K Agrawala, Rama Adhar Pathak
PublisherPrithvi Prakashan
Publication Year1984
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy