SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ प्रश्नशतम् जिनवल्लभ- कश्चिदैत्यो वदति दनुजान मन हरे! किं किमाधाः?, शक्रात्याहुः पृथगुदधिजाकान्तवैवखतान्ताः क्षिप्तः कश्चित् किल ललनया मन्मथोन्माथदुःस्थः,सख्या चख्ये कथमथ मनःखेदविच्छेदहेतोः॥१०३॥ ॥२०॥ | अव०-"कसमानमायमकालावसान" गतागतजातिः। हे कंस, मानं पूजा, आर्य लेभे इण् गतावित्यस्य शस्तन्या अमि वृद्धौ सत्यां रूपं । हे अ विष्णो, हे काल, हे अवसान । साऽबला स्त्री कामयमानं अभिलषन्तं आस चिक्षेप के न ? अपि तु सर्वमपि क्षिप्तवती ॥ १०३ ॥ जननीरहितनरोद्भवलक्ष्मीः सितकुसुमभेदगतबुद्धिः। सधीची यदपृच्छत्तदुत्तरं प्राप तत एव ॥१०॥ | अव०-"प्रसूनपुञ्जेनवमालिका" समवर्णप्रश्नोत्तरजातिः। प्रसूनपुञ्जे कुसुमनिकरे, अनवमा प्रधाना, हे आलि सखि,8 का ? इति प्रश्न उत्तरं-प्रसूर्माता तया ऊनः प्रसूनः जननीरहित इत्यर्थः, स चासौ पुमांश्च प्रसूनपुमान् , तस्माज्जाता प्रसूनपुञ्जा, सा चासौ ईश्च लक्ष्मीश्च तस्याः संबोधनं हे प्रसूनपुजे जननीरहितपुरुषोद्भवलक्ष्मि नवमालिका नवा चासो मालिका च नवमालिका ॥ १०४॥ ६ देवीं कमलासीना-मन्तकचिरनगररक्षकः स्मृत्वा। यदपृच्छत्तत्रोत्तर-मवाप कालीयमानवपुरत्र॥१०५॥ । अव० श्लोकमध्यस्थितसमवर्णजातिः' । का लीयमानवपुः श्रीयमाणशरीरा अत्र जगति ? इति प्रश्ने उत्तरं-काली देवता, यमस्य अनवं पुरातनं यत्पुरं नगरं तत्रायते यः स तथा तस्य संबोधनं हे यमानवपुरत्र ॥ १०५ ॥ AIHIERA ॥२०॥ ** *
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy