SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.bobatirth.org. कथंभूतं ? आलमारः आलमनर्थः अर्थादुपद्रवस्तं मारयति निराकरोतीति आलमारः, अत्र रलयोरैक्यं, अनर्थसार्थमथक इति । पुनः कथंभूतं ? आह्रादावलीदं आ समन्तात् ह्रादस्य आनन्दस्यावली माला तां ददातीति आह्लादावलीदस्तं । सकरमित्यत्र बिन्दु च्युतकं । करयोरित्यत्र रलयोरैक्यं । करस्य कान्तेः कला शोभारूपा तया सह वर्तत इति यः स तं सकरकलं । पुनः कथंभूतं ? । करं कलं मनोज्ञं । पुनः कथंभूतं ? श्रेयोऽग्रलक्ष्म्याः श्रेयो मुक्तिस्तद्रूपाऽग्रलक्ष्मीः प्रधानश्रीः तस्याः श्रेयोऽग्रलक्ष्म्याः मुक्तिरूपप्रधानश्रियाः वरं भर्तारं । पुनः कथंभूतं ? वरं बं विमलं नैर्मल्यं अर्था| न्निष्पापत्वं राति ददातीति बरः पुण्यद इत्यर्थः तं बवयोरैक्यं । यथैकाक्षरनाममाला - " बशब्दः स्याद्विमले बिन्दु - विसर्गे च कुवले चेति” । पुनः कथंभूतं ? सकलं कलया ज्ञानकलया सहितो यः स सकलः तं । पुनः कथंभूतं ? कलं कलं कलंको लोकापवादस्तं लुनाति च्छेदयति यः स कलंकलस्तं । यो जिनं जनः स्तौति तस्य लोके लोकापवादो न भवतीत्याशयः इति ॥ १ ॥ यः शर्मदंं प्रष्ठतमस्तमस्तमः - संस्फेटनांशुर्विदरं दरंदरम् । विश्वस्य देवैर्महितं हितं हि तं पार्श्व भजेऽहं सकलं कलंकलम् ॥ २ ॥ व्याख्या — हि निश्चितं तं पार्श्वमहं भजे सेवे । तं कमित्याह यः पार्श्वः तमस्तमः संस्फेटनेऽशुर्वर्तते तमः पापमज्ञानं वा तदेव तमोऽन्धकारं तस्य तमस्तमसः सम्यक्प्रकारेण स्फेटनं दूरीकरणं तस्मिन् अंशुरिवांशुः अज्ञानान्ध For Private And Personal Use Only Acharya Shri Kaisagarsun Gyanmandir
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy