SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ॥ १ ॥ www.kobatirth.org तनुभाजां भवनपतिव्यन्तरज्योतिष्कवैमानिकदेवं तिर्यमनुष्याणां पुंस्त्रीनपुंसक रूपाणा पृथग् मेदानामुजवलं निर्मलं, मोक्षमार्ग मुक्तिपथं पृथगिव भिन्नमिव विदिशन्तं प्रकाशयन्तं । कैः कृत्वा १ क्रम० क्रमाणां चरणानां नखाः क्रमनखाः, दश च ते क्रमनखाश्च तेषां कोटी अग्र, दीप्राणि च तानि दीप्तीनां प्रतानानि क्रम० तैः कृत्वेत्यथः । क्रमाणामित्यत्र बहुवचनं पूज्यत्वसूचकं । यथा कल्याणमन्दिरस्तोत्रे - 'यद्यस्ति नाथ भवदङ्घ्रिसरोरुहाणां' इतिवचनात् तीर्थकृतां पादाः सर्वेषां पूजनीया इति भावः । इति प्रथमश्लोकार्थः ॥ १ ॥ कीपुस्तनुभृता मैथ शिल्पिशिक्य- देहानुदाहरति काध्वनिरत्र कीदृक् ? | काश्चारुचन् समवसृत्यवनौ भवाम्बु- मध्यप्रपातिजनतोद्धृतिरज्जुरूपाः १ ॥ २ ॥ अव० – “जिनर्दन्तरुचैयः” । तनुभृतां शरीरिणां वपुः शरीरं कीदृक् स्यात् ? जिनत्, हानिं गच्छत् । ज्या हानौ धातुः । शतृ प्र० नाविकरणे गृहिज्यावयीत्यादिना ( ४-१-७१ ज्यान्येव्यधिव्यचिव्यथेरिः ) संप्रसारणं । तद्दीर्धेत्यादिना ( ४-१-१०३ दीर्घमवोऽन्त्यम् ) दीर्घत्वं । प्वादीत्यादिना ( ४-२-१०५ प्वादेईस्वः ) ह्रस्वत्वं । क्यादीत्यादिना ( ४-३-९४ इडेत्पुसि चातो लुक् ) आकारलोपः । रुश्च चश्च यश्च रुचयाः तेऽन्ते यस्य काध्वनेः । ततो यथा| क्रमं कारु काच काय इति भवति । अईद्दशनदीप्तयः ॥ २ ॥ १ कारुः शिल्पी, काचः शिक्यं, कायो देहः । For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir प्रश्नशतम् ॥ १ ॥
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy