SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ शृङ्गारार्णवचन्द्रिका [X. 89 - अत्र स्मरः क्रूरः'तस्मादमरं श्रय इति पूर्वार्धे हेतुर्वक्तव्यः । अपरार्धे कथनादर्थान्तरैकवाचकं वाक्यम् । प्रारब्धरूपभङ्गो यत्र स्याद् वाक्यमुच्यते सद्भिः । भग्नप्रकममेतत्प्रकृतिप्रत्ययविभेदतोऽनेकम् ।।८९।। केलीसदनं याते नाथे रमणी च रागतः प्राप्ता। यात इति प्रारब्धे प्राप्तेति प्रकृतिरूपभङ्गः स्यात् ।।९०॥ ईक्षणं हसनं नारी चुम्बितं कर्तुमिच्छति । ईक्षणं हसनं चोक्त्वा चुम्बितं परिकथ्यते ॥९१।। अत्र प्रत्ययभङ्गः। यत्र वाक्ये गुणीभूतं योगं न लभते पदम् । समासेऽन्यः पदैर्मुख्यैः फलाय तदुदीरितम् ।।१२।। अभवन्मतयोगं तु वाक्यं काव्यार्थकोविदः । अस्य वाक्यस्य रूपाभिव्यक्तये लक्ष्यमुच्यते ॥१३॥ तन्वी सरो मुखं पद्मं लावण्यं निर्मलं जलम् । अक्षीन्दीवररम्येऽस्मिन् यथेष्टं क्रीड नायक ।।९४॥ अत्र अक्षीन्दीवरशब्दः समासगतः प्राधान्याभावाद्गौणो यतस्ततोऽभवन्मतयोगं वाक्यम् । यत्र पूर्वं प्रकृष्टं स्यादुत्तरं हीनमुच्यते। पतत्प्रकर्षनामैतद्वाक्यमुक्तं कवीश्वरैः ।।१५।। भूपालोऽयं मृगेन्द्रो भूगन्धसिन्धुरराट् भुवि । अत्र प्रकृष्ट पञ्चास्याद् हीनः स गज उच्यते ।।१६।। वाक्यदोषान् निरूप्याहमर्थदोषान्ब्रुवेधुना। तेषामुद्देशनं तावत् क्रियते क्रमतो यथा ॥९७।। १. तस्माद् रमं । २. पंचास्यादीनः सामज उच्यते । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy