SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका [ IX. 276 - प्रसिद्धसाधनाद्यत्र कालत्रितयगोचरम् । साध्यं निश्चीयते प्राज्ञैरनुमानं तदुच्यते ॥२७६।। मानसोल्लासनं दृष्टि शीला साधवगम्य सा (?) । कान्ता श्रीरायबङ्गस्य 'शृङ्गाराब्धौ निमज्जति ॥२७७॥ बर्तमानसाध्यगोचरानुमानालंकारः। श्रीरायभूपदिव्याङ्गे मुक्ताजालं विलोक्य सा। कान्ता कुप्यति बघ्नाति काञ्चीदाम्ना निजेश्वरम् ॥२७८॥ अतीतसाध्यगोचरानुमानालंकारः कादम्बवाधिचन्द्रस्य वाग्विलासादनागतम् । फलं निश्चित्य सा कान्ता निजेशेऽगात् परां मुदम् ।।२७९।। भाबिसाध्यगोचरानुमानालंकारः । यत्रासंभाव्यसंबन्धो वस्तुनोऽन्येन केनचित् । अनौचित्येन संप्रोक्तो विषमं तं प्रचक्षते ॥२८०॥ कादम्बनाथ करुणारसदुग्धवाधिः क्वायं त्वदीयहृदये सकलप्रजासु । रुद्रावतार धर धीर रिपुव्रजेषु क्वायं चकास्ति च रसो वररौद्रनामा ॥२८॥ उत्कृष्टतान्तरं यत्र प्रकृतस्योपलक्षणम् । कथ्यतेऽवसरः सोऽयमलंकारो विबुध्यताम् ॥२८२।। येन जिष्णुरपि ध्वस्यः शत्रुर्भीमोऽपि सङ्गरे । तस्य श्रीरायबङ्गस्य दोर्दण्डेऽभूज्जयाङ्गना ॥२८३।। अवसरालंकारः । यत्र साम्यं प्रतीयेत वस्तुनः प्रतिवस्तुना। इवादीनामप्रयोगे प्रतिवस्तुपमा हि सा ॥२८४।। १. शृङ्गारा""निमज्जति For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy