________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५
- IX. 163 ] ९. अलंकारनिर्णयः चन्द्रातपादिवस्तुसंगमे कारणे संनिहितेऽपि शैत्यकार्य न जातमिति कार्याक्षेपालंकारः।
रणे गृहीतो रायेण रिपुवर्गो वदत्यलम् ।
वधाभिलाषो यदि ते हन्तव्यो रणभैरवः ॥१५८।। हन्तव्य इत्यङ्गीकारमुखेनैव काक्वा स्ववधो निषिध्यत इत्यनुज्ञाक्षेपालंकारः।
कलौ काले महादुष्टॉल्लुण्टाकादिकदुर्जनान् । निराकरोति श्रीरायः प्रभुत्वेनैव राजते ॥१५९॥ आदिपदेनैव दुर्जननिषेधात् प्रभुत्वाक्षेपालंकारः । स्थितिर्वा ते गतिर्वा ते रमणास्तु ममाकृतिः ।
द्रष्टुं न शक्यते पश्चात्तदेतत् सुविचार्यताम् ।।१६०।। इति वदन्त्या नायिकया सादरं वचनं प्रयुक्तमिति सामर्थ्यादनादरो निषिद्ध इति अनादराक्षेपालंकारः।।
पश्य पश्यसि चेदन्यामस्तु तद्दर्शनं शुभम् । यावदागमनं तावत्तच्चिन्तास्तु मम प्रिय ॥१६१।। इति वदन्त्या कान्तयाशीर्वचनमुखेन काक्वा कान्तगमनं निषिध्यत इत्याशीर्वचनाक्षेपालंकारः ।
दास्यामि हारं गन्तव्यं त्वया तुभ्यं नमो नमः ।
अन्यथा वामपादो मे तव बुद्धिं वदिष्यति ॥१६२।। इति ब्रुवाणयातिरक्तया कान्तया गमनसहायताकरणव्याजेन प्रियप्रयाणं निषिद्धमिति साचिव्याक्षेपालंकारः ।
याहि याहि निजेश त्वं मम यत्नस्तथैव भो। तव प्रयाणे पाथेयं प्रागेव विहितं मया ॥१६३।।
For Private and Personal Use Only