SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७० शृङ्गारार्णवचन्द्रिका [ Ix. 126 - स्वभावेन धवलानां चन्द्रादीनां कीर्त्यशस्पर्शनाद् धावल्यमन्यथा कल्पितम् । इयं वाच्योत्प्रेक्षा । तव तेजोगुणं लब्धुं बालभानुरयं पुनः । पुनः पूर्वाद्रिमारुह्य वसतीव तपस्यलम् ।। १२६ ।। क्रियायोगिना इवशब्देन व्यञ्जितोत्प्रेक्षा इयमपि वाच्योत्प्रेक्षा । प्रतीयमानोत्प्रेक्षायास्तु (? गुरुत्वा) तिशयाभावादुदाहरणं पूर्वशास्त्रे न कृतमिति नास्माभिरपि कृतम् । प्रस्तुतीकृत्य यत्किचिद्वस्तुतस्सिद्धये पुनः । अन्यस्यार्थस्य योग्यो 'योऽर्थान्तरन्यास एव सः ॥ १२७ ॥ कीर्तिप्रताप रायेण भुवनत्रयवर्तिनी । लब्धी पुण्यवता केन किं किं पुंसा न लभ्यते ॥ १२८|| विश्वव्यापिनामार्थान्तरन्यासः । वक्षोरङ्गनिवासिनीं श्रियमिमां कृत्वा मुखाब्जस्थितां वाग्देवी जयकामिनी विलसितां दोर्दण्डसद्मस्थिताम् । कादम्ब क्षति स्थिते वरयशस्कान्ता गृहान्निर्गता लोके स्त्री सहते विवर्धनगतां का वा सपत्नी श्रियम् ॥ १२९ ॥ अयमपि विश्वव्यापी । श्रीकामिरायबङ्गोऽयं कलौ काले सतां मुदम् । उत्पादयति शीतांशुः कलावपि मुदे न किम् ।। १३०।। विशेषस्थार्थान्तरन्यासः । कान्तास्यचुम्बने सक्तो रायेन्द्रो याति संमदम् । पद्मिन्याः पङ्कजासक्तो भ्रमरः किं न तुष्यति ।। १३१॥ १. सो For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy