SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका समस्तरूपकम् । श्रीरायो जलधिः सुधांशुरमृतं मेरुः सुरानोकहो भानुः सिद्धरसो मनोजनृपतिश्चिन्तामणिर्देवराट् । भोगीन्द्रः सुरधेनुरम्बरमिदं काले कलौ सर्वदा भूत्वा तीर्थंकरोऽपि सर्वजनतानन्दाय संवर्तताम् ॥ ६७॥ [ JX. 67 - व्यस्तरूपकम् । कामिन्याः पदपङ्कजेद्धमधुपो वक्त्राब्जसंवर्धिताम्बोधिस्त्वं वरनाभिचारुसरसि श्रीराजहंसः सदा । अङ्कालाननिबद्धभावजगजस्तुङ्गस्तनाद्रिस्थित 'व्याधोऽपाङ्गनिरीक्षणेषुविलसल्लक्ष्योऽसि बङ्गप्रभो ।। ६८ ।। समस्तव्यस्तरूपकम् । श्री रायस्य मुखेन्दुस्ते (? श्च) स्मितज्योत्स्नाविराजितः । कस्तूरीतिलकाद्धो भाति सूक्तिसुधारसः ॥ ६९ ॥ स्मितादिषु ज्योत्स्नादित्वं मुखे च चन्द्रत्वमारोप्य तद्योग्यस्थानविन्यासादेतत् सकलरूपकम् । स्मितज्योत्स्नां मुखं धत्ते कस्तूरीतिलकाङ्कनम् । सूक्तिपीयूषसारं ते कादम्बेश्वर रायराट् ॥ ७० ॥ मुखस्यावयवानां स्मितादीनां ज्योत्स्नादिष्वारोपाद अवयविनो मुखस्यानारोपाद् अवयवरूपकम् । मुखेन्दुस्ते जनानन्दं करोति भ्रूविराजितः । विशालनेत्रो निटिलं धरन श्रीरायभूपते ।। ७१ ।। अत्र भूनेत्रनिटिलानामवयवानामनारोपः अवयविनो मुखस्य चन्द्रत्वारोपाद् अवयविरूपकम् । १. व्यादोपांग, २. मुखदत्ते । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy