SearchBrowseAboutContactDonate
Page Preview
Page 878
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८६४ संस्कार तत्त्वम् । मौत्यस्य मन्त्रस्य ऊह प्रतिषेधोऽर्थः । स्वयञ्च दुभयं कुय्यादिति छन्दोग परिशिष्टात् । कृताकृतावेक्षणवत् स्वयं तत्कुशोपवेशनस्य कर्त्तव्यत्वात् कुशमयब्राह्मणादिप्रतिनिधिना तदुपपत्तेः तेनैव पूर्ववर्त्म नेति भट्टभाष्यम् । अथेति विशिष्टमानन्तर्यं द्योतयति तच्च द्रव्यानुपयोग क्रमेणाग्नेरुत्तरतः उदगग्रान् पूर्वक्रमेणासाद्य वोच्य प्रोक्ष्य चेति । अथानन्तरमन्यद्दक्ष्यमाणं कर्म चेष्टेत् कुर्य्यात् यजमानः । परस्मैपदं छन्दोवत्सूत्राणि भवन्तोत्य॒क्तोः । अथ द्रव्यासादनम् । तत्र कात्यायनः । " प्राञ्चमुदगग्नेकदगग्र समौपतः । तत्तथासादयेद्द्रव्यं यद्यथा विनियुज्यतं " ॥ इति भट्टभाष्ये धृतच्च । " द्रव्याणामुपक्लप्तानां होमीयानां यथाक्रमम् । मादयन् वौक्षणं कुर्य्यादद्भिरभ्य॒क्षणं तथा" ॥ छन्दागपरिशिष्टम् । " श्रान्यस्थालौ च कर्त्तव्या तेजसद्रवसम्भवा । माहेयौ वापि कर्त्तव्या नित्यं सर्वाम्मिक सु” ॥ अथ यदि प्रकृतकर्माणि चरुहोमस्तदा अस्मिन्नेव समये चरु प्पयेत् । गोभिलेन ब्रह्मस्थापनानन्तरं तद्दिधानात् । अथ चरु विधानम् । तत्र गोभिलः । " अथोदूखलमुषले प्रचात्य सूर्पञ्च पश्चादग्नेः प्रागग्रान् कुशानास्तौर्य्य उपसादयति अथ हविर्निवहेदिति । व्रीहौन् यवान् वा कांस्येन चरुस्वास्या वा अमुष्मैवायुष्टं निर्वपामीति देवतानामोद्देशः सक्कद्यजुषा विस्तृष्णोम् अथ पञ्चादवहन्तुमुपक्रमते दक्षिणोतराभ्यां पाणिभ्यां त्रिः फलोकतां स्तण्डुलांस्त्रिर्देवताभ्यः प्रचालयेत् हिर्मनुषेभ्यः सकृत् पितृभ्य इति पवित्रान्तर्हितांस्तण्डलानावपेत् कुशलशृतमिव स्थालीपाकं स्थापयेत् प्रदक्षिणमुदायुवन् शृतमभिवार्य्यं उदगुहास्य प्रत्यभिघारयेदिति ॥ अस्यार्थः उपसादयति स्थापयति देवतानामोद्देशं देवतानामो " For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy