SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मलमासतत्त्वम् । ७६७ माचरन्ति तेषां वाक्यन्तु । अद्य प्रमादनष्टहिरण्यतुल्यहिरखाप्रदानजन्यपापसमपापामुत्पत्तिकामदं प्रमादनष्टहिरण्यतुल्यहिरण्य मित्यादि दक्षिणा च अस्मन्मते प्रमादनष्टानन्तरम् पत्. सृष्टाप्रतिपादितेति विशेषः। वृहस्पतिः। “नित्यनैमित्तिके कुर्यात प्रयत: मन् मलिम्लुचे। तीर्थस्नानं गजच्छायां प्रेतबाई तथैव च” ॥ तीर्थस्नानमावृत्तम् । अनावृत्ते निषेधस्य वक्ष्यमाणत्वात। गजच्छायापदं तद्विहितकर्मपरम्। गज च्छाया वराहोला । "सैहिकेयो यदा भानं ग्रसते पर्वसन्धिषु । गजच्छाया तु सा प्रोक्ता तत्र श्राई प्रकल्पयेत्” ॥ पत्र च राहुवै इस्तीभूत्वा चन्द्रमसं असतोति श्रुतिमूलम् । सूर्यग्रहे चन्द्रग्रासस्थावश्यक इति मूलमूलिनोविरोध इति मैथिलाः। तथा च विष्णुधर्मोत्तरे। राहु प्रति भगवहाक्यम्। “पर्वकाले तु संप्राप्ते चन्द्राको छादयिष्यसि। भूमिच्छायागतश्चन्द्रं चन्द्रगोऽक कदाचन ॥ संच्छादयिष्यसि यदा तदा भावमवाप्सासि | साने जप्ये तथा होमे दाने श्राद्दे सुरार्चने । पुण्यः स कालो भविता नित्यमेवासुरेश्वर" ॥ नित्यं मलमासादिप्रतिषिद्ध कालेऽपि । वस्तुतस्तु सूर्यग्रहेऽपि साक्षात् श्रुतिरस्ति। तथा च समयप्रकाशे कठब्राह्मणम्। “हस्तौ वै भूत्वा वर्भानुरंशुभिरादित्वं तमसा पिदधातौति। अमावास्यां गते सोमे छाया या प्राख्न खो भवेत्। गजच्छाया तु सा प्रोता तत्र श्राद्ध प्रशस्यते” ॥ इति वचनात् अमावास्याश्राद्ध मलमासेऽपि कार्य इति मैथिलोत हेयम् एतह षणस्य वक्ष्यमाणत्वात्। अत्र ब्रह्मपुराणोल गजच्छायायोगो न गृह्यते कन्यामलमासे त्रयोदश्यां चित्रायामेव रवेरवस्थानेन तदसम्भवात् स च “योयो मघात्रयोदश्यां कुन्नरच्छायसंजितः। भवेन्मघायां संस्थे तु मशिन्यर्के करे स्थिते" । कर हस्तायां ततस्थे सूर्यो । मघासंस्थे For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy