________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
थाहतत्वम् । प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहेभ्यो वृक्षप्रमातामहे भ्यच खधोच्यताम् इति “अस्तु खधेत्युक्त स्वधानिनयनौयान् वारिधारां दद्यात् अज्ज वहन्तीरित्यपो निषिञ्चतौति । न च सव्येनाघोराः पितरः सन्विति दक्षिणां दिशं मनसाकाइन् पूर्वाभिमुखः पठेदिति कृत्य प्रदीपः। “दत्त्वाशौः प्रतिटलौयात् द्विजेभ्यः प्राम खो बुधः । अघोरा: पितरः सन्तु सन्वित्यक्तः स तैः पुनः" ॥ इति मत्यपुराणवचनेन “दक्षिणां दिशमाकान् याचेतेमान् वरान् पितृन्" इत्यादि मनुवचनैकवाक्यत्वं तत्र प्रमाणमिति वाच्यम् । “पिण्हपिटयज्ञवदुपचार: इति गोभिलसूत्रेन वैखदेवकमातिरिक्त दक्षिणामुखत्वप्रतीतेः। “दक्षिणां दिशमाकान्" इति मनुवचनस्य तथार्थत्वे प्रमाणाभावाच्च। अतएव दक्षिणां दिशमाकाइनिति वौक्ष्यमाण इति टोकाकाराख्यातम्। मनुना आकाङ्क्षन् इत्यनन्तरं दातार इति पठितं न तु अघोराः पितरः सन्विति। मत्स्यपुराणेऽपि अक्षय्योदकदानानन्तरं दत्त्वेति न पठितम्। किन्तु “ततः खथा वाचनिकं वैश्वदेवेषु चोदकम्" इत्यनन्तरं दत्त्वाशीरित्यई पठित्वा “अघोराः पितरः सन्तु सन्वित्युक्तः पुनहि जैः । गोत्रो वईतामस्तु तथेत्युक्तः स तैः पुनः । दातारो नोऽभिवईन्तामन वेत्युदौरयेत् ॥ इत्ये व पठितं ततः शाखिविशेषे तादृक् क्रमकर्मणि प्राश खत्वं न तु गोभिलाद्युक्त कर्मणि । प्रतएव पिटदयितादावाशौः प्रार्थने प्राम खत्वं नाभिहितम्। खधानिनयनौयान् खधावाचनमात्रार्थान् न तु कृतप्रयोजनान्तरान् । ततश्च नारायणोपाध्यायशूलपाणिप्रभृतिभिर्यदय सम्बन्धि पवित्रमावास्तरणमुक्त तत् प्रमाणशून्यम्। कुशान्तरास्तरणरहितत्वेन मूत्रविरुद्धञ्च अन्यथा पिण्डरेखापि अध्य सम्बन्धिपवित्रेण कथं न स्यादिति ।
For Private And Personal Use Only