SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिथितत्त्वम् । १७३ पति मनुवचनाभ्याम् "ऊई मुहर्तात् कुतपात् यन्मुहर्त चतुष्टयम्। मुहर्तपञ्चकं वापि स्वधाभवनमिष्यते” इति मत्स्यपुराणात् मुहर्तपञ्चक मित्यत्र कुतपादिति ल्यप्लोपे पञ्चमी कुतपमारभ्येत्यर्थः। ततस्तेनैव “अपराह्न तु संप्राप्ते अभिजिद्रौहिणोदये। यदव दीयते जन्तोस्तदक्षयमुदाहृतम् ॥ इत्यताम्। “पूर्वाह्नो वै देवानां मध्यं दिनं मनुष्याणाम् अपराह्नः पितृणाम् ॥ इति श्रुतेः। वासरस्य टतीयांश इति कात्यायनवचनं सायाङ्ग स्त्रिमुइतः स्याच्छाई तत्र न कारयेदित्येषामकवाक्यत्वाहासरतीयांशीयापराह्न मुहर्सहयस्य लाभ इति । अत्र “दर्शश्राद्धन्तु यत् प्रोक्त पार्वणं तत् प्रकीर्तितम्। अपराह्नः पितृणान्तु तत्र दानं प्रशस्यते" ॥ इति शाततपौय वचने प्रशस्यत इत्यभिधानात्"मासि मास्यपरपक्षस्यापराह्नः श्रेयान्" । इत्यापस्तम्बवचने श्रेयानित्यभिधानाच्च प्रशस्त्यतारतम्यं कल्पाते न तु मुख्य कल्पानुकल्पत्वमिति। अपरपक्षस्य कृष्णपक्षमात्रस्य तथा च श्रुति: पूर्वः पक्षो देवानामपरःपक्ष: पितृणाम्” इति एवज्ञामावास्या न निमित्तान्तरं किन्तु कृष्णपक्षनिमित्तकबाइस्य प्रशस्त कालपरा अतएव शतोस्तारतम्येन बहन् कल्पानाह गोतमः। “अथ श्राद्धममावास्यायां पितभ्यो दद्यात् पञ्चमी प्रति वापरपक्षस्य यथा श्राद्ध सर्वस्मिन् वा द्रव्य देशब्राह्मण सन्निधो वा कालनियमः शक्तिात इति” ॥ योऽयममावास्यादि कालनियमः स शक्तस्य सद्रव्यस्यारोगिणोबोदव्य इति श्राइविवेकः । अतएवामावास्यायामति प्राशस्त्यमाह निगमः । "अपरपक्षे यदहः सम्पद्यते अमावास्यायान्तु विशेषण" । तथा च मनुः । कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दशीम् । श्राद्ध प्रशस्तास्तिथयो यथैता न तथेतरा:” ॥ अत्र चतुदशौ वर्जनं तदन्ते वापि निर्वपदित्युक्त विषयेतरविषयमन्यथा तद्दचनं व्यर्थ स्यात् नचेदं शस्त्रहत पिटमात्रविषयं तस्य प्रकरणभेदादनुपस्थिते: अमावास्याया: प्रतीक्षायाः असम्भवे चतुर्दशी विधानाच्च। यत्तु “कायं श्राइममावास्यां मासिमास्युड़ पक्षये"। इति मार्कण्डेयपुराणेऽभिहितं तन्मासि मासि यत् काय बाई तच्चन्द्र क्षयेऽमावास्यां प्राप्यातिप्रशस्तं For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy