SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir जिणमयनिउणेणज्झावएण सा मयणसुंदरी बाला । तह सिक्खविया जह जिणमयंमि कुसलत्तणं पत्ता ॥२॥ एगा सत्ता दुविहो, नओ य कालत्तयं गइचउक्कं । पंचेव अत्थिकाया,दव्वछकं च सत्त नया ॥६३॥ अट्ठेव य कम्माई , नवतत्ताइं च दसबिहो धम्मो । एगारस पडिमाओ, बारस वयाइं गिहीणं च ॥६४॥ इच्चाइ वियाराचारसारकुसलत्तणं च संपत्ता । अन्ने सुहुमवियारेवि मुणइ सा निययनामं व ॥६५॥ जिनमतविषये निपुणेन अध्यापकेन-पाठकेन सा मदनसुन्दरीकन्या तथा शिक्षिता-शिक्षाग्राहिता यथा जिनमते कुशलत्वं प्राप्ता ॥६२॥ सतो भावः सत्ताऽस्तित्वमित्यर्थः, सा सर्वेष्वपि पदार्थेषु एकैव वर्तते, च-पुनर्द्विविधो नयः द्रव्यपर्यायादिस्वरूपः, तथा कालत्रयं, गतिचतुष्कं, पञ्चैव अस्तिकाया-धर्माधर्माकाशपुगलजीवस्वरूपाः सन्ति, च- पुनर्द्रव्याणां-धर्मास्तिकायादीनां कालद्रव्ययुक्तानां षट्कमस्ति, तथा नैगमाद्याः सप्त नयाः सन्ति ॥६३॥ ज्ञानावरणीयादीनि अष्टैव कर्माणि सन्ति, च - पुनर्जीवादीनि नव तत्त्वानि सन्ति, तथा क्षान्त्यादिको दशविधो यतिधर्मो विद्यते, एकादश दर्शनाद्याः श्रावकप्रतिमाः सन्ति, च - पुनर्गृहिणां स्थूलप्राणातिपातविरमणादीनि द्वादश व्रतानि सन्ति ॥ ६४ ॥ सा मदनसुन्दरी इत्यादयो ये विचाराचारयोः सारा-रहस्यभूतपदार्थाः तेषु कुशलत्वं-निपुणत्वं सम्प्राप्ता, च - पुनः साऽन्यान्-एतद्व्यतिरिक्तान् सूक्ष्मविचारानपि निजकनामवत् मुणति-जानाति ॥६५॥ ******************* ****** For Private and Personal Use Only
SR No.020748
Book TitleSirival Kaha
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSisodara Shwe Mu Pu Jain Sangh
Publication Year1992
Total Pages312
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy