SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५४ ] श्रीश्रीधरचरितमहाकाव्यम् । [ षष्ठः प्रायो जनाः स्युः पशवः शिशुत्वे, स्त्रीशैव लिन्यां शफरा युवत्वे । धर्मे मतिर्येषु न वार्द्धकेऽपि, हाहा ! हता ही हरिणा इवामी ॥ ५० ॥ ततः स्वयं स्थातुमहं समीहे, संप्रेषये तत्र निजं तु पुत्रम् । श्रुत्वेति तं क्षोणिपतेः सकाशे, निध्याय मन्त्री हृदये सदध्यौ ॥ ५१ ॥ अहो ! महोराशिरहो महत्त्वमहो ! महोल्लासकरी तनुश्रीः । तस्या यदि स्यादयमेव भर्त्ता, तत् किं परैः किन्तु बली निदेशः ॥५२॥ दु० व्या०-निदेश :-आदेशः ॥ ५२ ॥ आदिश्यतां तत् त्वरितं स्वसूनुरित्युक्तिपूर्वं प्रणिपत्य भूपम् । गन्तुं प्रवृत्तः सचिवोऽन्यदेशान् पितुर्निर्देशाद् विजयोऽप्यचालीत् ॥ चलत्पताका शफराप्तरङ्गा, विलोलवादैर्विलसचरङ्गा । स्वभावतोऽप्यस्य चमूचरन्ती, रिपुडुमान्मूलन सिन्धुरासीत् ॥ ५४ ॥ ग्रामाऽऽकरद्रङ्गधरां धरित्रीमुल्लङ्घमानः स लघुप्रयाणैः । वैताढ्यभूमीधरसन्निधानेऽन्यदा लुलोक स्फटिका चलेन्द्रम् ||५५|| * Acharya Shri Kailassagarsuri Gyanmandir दु० व्या० - द्रङ्गः - पत्तनम् ॥ ५५ ॥ कोऽयं गिरिर्नत्रमुदं प्रदत्ते, पुर: स्फुरचन्द्रकरावदातः । इति प्रणुन्नः प्रयतः प्रणम्य, स्थगीधरः स्माह धराधिनाथम् ॥५६॥ दु० व्या - प्रणुन्नः - प्रेरितः ॥ ५६ ॥ लोकेषु कैलास इति प्रसिद्धः, शम्भोर्निवास प्रवदन्ति यत्र । अष्टापदं सिद्धिपदं युगादिप्रभोः पुनर्जेनमते मतोऽयम् ॥ ५७ ॥ यन्मौलिचन्द्रोपलचारुरोचिर्वीची विहायोऽभिमुखं चलन्ती । स्वर्गापगा जेतुमिवावभासे, हेलावहेला गमितेन्दुबिम्बा ॥ ५८ ॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy