SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सर्गः ] स्वोपज्ञदुर्गपदव्यास्थालङ्कृतम् । हर्षोन्मत्ते जने बाला, सा सुखं तन्मुखं पपौ । मन्त्री कन्यां गृहं निन्ये, धन्यंमन्यो महोत्सवैः ॥ १०० ॥ Acharya Shri Kailassagarsuri Gyanmandir कुमारेऽपि वनं गत्वा, रन्त्वा प्राप्ते स्वमाश्रयम् । नय सारसभामेत्य, नत्वा भूपं व्यजिज्ञपत् ॥ १०१ ॥ उज्जीविता कुमारेण, परं मारेण मे सुता । दूयते वारणेऽप्यस्य, तमेव शरणं कुरु ॥ १०२ ॥ प्रपने भूभुजा सोsपि, वैवाहिकविधिं व्यधात् । स्वजनाशाभिराकृष्ट, इवा गाल्लग्नवासरः || १०३ ॥ कुमारः कृतशृङ्गारः, करीन्द्रमधिरूढवान् । धृतच्छत्रः स्फुरच्चारुचामरः स रुचामरः ॥ १०४ ॥ दु० व्या० - रुचा अमरः ॥ १०४ ॥ वर्ण्यमान गुणैर्भर्वणिनीगीतमङ्गलः । स प्राप मण्डपागारद्वारं तोरणमण्डितम् ॥ १०५ ॥ कृतोचितक्रियो बिन्दुवधूवृन्दैः क्षणे क्षणे । मृगेक्षणे उपयेमे, क्षणेऽसौ लग्नलक्षणे ॥ दु० व्या० - बिन्दुः- निपुणः । मृगेक्षणे द्वे ॥ १०६ ॥ For Private And Personal Use Only १०६ ॥ जनितस्वजनानन्दः, कृते यौतुककौतुके । समहं स गृहं प्राप, वीक्षमाणः पुरीजनः ॥ १०७ ॥ [1 दु० व्या० - यौतुकम् - युतयोर्देयम्, कौ - पृथिव्याम् ॥ १०७ ॥ रतिप्रीतिसमं पौरैस्तस्य वीक्ष्य वधूद्वयम् । ऊचे पृथिव्यामयं मारः कुमारत्वं ततोऽत्र किम् १ ॥ १०८ ॥
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy