SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०] श्रोधीधरचरितमहाकाव्यम् । [द्वितीयः बहवः सुहृदो मित्राणि तेषां वाहनो वश्का । यो लक्ष्मीकान्तः स वैकुण्ठः कथं न स्यात् ? इत्थं विरोधः । लक्ष्म्याः कान्तः, वै निश्चितं न कुण्ठः बुद्धिरहितः ॥ ७ ॥ गज्यं पालयति स्म, प्राज्यं जयचन्द्रभूपतिस्तत्र । यस्य प्रतापतपनो, न घनैरपि संवृतो रिपुभिः ॥ ८॥ दु० व्या०-पक्षे घनै: मेधैः, संवृतः आच्छादितः ॥ ८॥ * यस्मिन् करवालकरे, क्रीडति रणमरसि सिन्धुरेश इव । जाड्यगताः शत्रुभटा ददुखद् दूरतो नेशुः ॥९॥ दु० व्या०-गजपक्षे करवालवत् करः सूण्ढो यस्य स तस्मिन् । जाड्यं युद्धमाश्रित्य, पक्षे जलस्य भावो जाड्यम् , डलयो स्क्यम् ॥ ९॥ यस्य यशःकर्पूरे, सौरभपूरः सुरक्षितो भुवने । चित्रं शत्रुसमुद्भवदुर्यशसाङ्गाररूपेण ॥ १० ॥ दु० व्या०-शत्रुजातोऽपि हितं चिन्तयतीति चित्रम् ॥१०॥ शशिमण्डलीव सकला, सकलकलाकेलिकेलिगृहममला। कमला हरेरिव कला, कलावती तस्य कान्ताऽऽसीत् ॥११॥ दु० व्या०-चन्द्रमण्डलवत् सकला सश्रीका। सकलानां कलाकेले: कामस्य केलीनां गृहं स्थानम् । कला मनोज्ञा ॥ ११ ॥ अथ यत्यार्यायनिर्मलशीलजिता, घनशैवलकलुषसलिलसुरतटिनी। भ्रमति त्रिजगन्मध्ये, भीरू: किमु तरलभङ्गिभरा ॥१२॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy