SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४] श्रीधीधरचरितमहाकाव्यम् । [ प्रथमः स श्रीअञ्चलगच्छवासरमणिः सूरीन्द्रचूडामणि भूमीहारनिभश्चिरं विजयतां श्रीमेरुतुङ्गो गुरुः ॥ ११ ॥ दु० व्या०-शरण्यं शरणागतवत्सलम् । गुरुरित्यत्र " गुरावेकश्न " (सिद्धहेमसूत्रम्-२. २. १२४. ) इति सूत्रेणैकवचनम् ॥ ११ ॥ तेषां गुरूणां वात्सल्यमरकेसरिकन्दरः। शिष्योऽस्मि भूरिभक्तः श्रीमरिमाणिक्यसुन्दरः ॥१२॥ दु० व्या०-नेषां श्रीमेरुतुङ्गसूरोणां दीक्षागुरुवात् शिष्योऽस्मि । गुरूणां वात्सल्यभर एव केसरी, तस्य कन्दरः। यस्य गुरुषु भक्तिस्तत्र गुरोर्वात्सल्यमपि स्यादिति भावः ॥ १२ ॥ कलाभृतो यस्य करेग मौलिस्पृशा विनेयेष्विव कैरवेषु । लक्ष्मी लन्ती भजते न मोहं, करोमि विद्यागुरवे नमोऽहम् ।।१३।। दु० व्या०-अहं विद्यागुरवे एव नमः करोमि । यस्य विद्यागुरोः करेण मौलिस्पृशा सता विनयेषु शिष्येषु, लक्ष्मीः शोभा ललन्ती सती मोहं जाड्यं लन्ती न भजते । किविशिष्टस्य ? यस्य कलाभूतः कलायुक्तस्य, पक्षे चन्द्रस्य यथा-कलाभृतश्चन्द्रस्य करेण, जातावेकवचनत्वात् किरणेन मौलिस्पृशा सता, कैरवेषु कुमुदेषु, लक्ष्मीः कमला ललन्ती, मोहं लक्षणया आलस्यं न भजते; सदैव तत्र वसतीति भावः ॥ १३ ॥ 'श्रीजयशेखरसूरीश्वरसुगुरुभ्यो नमोऽस्तु मम तेभ्यः । येषां पदप्रसादादहमपि गुम्फं करोम्येवम् ॥ १४ ॥ दु. व्या०-येषां विद्यागुरूणाम् । गुम्फ प्रन्थम् ॥१४॥ °णां सद्भक्तिभA । २ °स्मि वाचनाचार्यो मुनिमा A । ३ A भादर्श नास्तीदं (1४) पद्यम् । B आदर्श सत्यप्यस्मिन् पये पचाकमेमेवात्य न्यस्तमिति प्रक्षिप्तमिदं ज्ञायते ॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy