SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अञ्चलगच्छीयश्रीमाणिक्यसुन्दरमरि विरचितं छन्दोलक्षणयुतं स्वोपक्ष दुर्गपदव्याख्यासमलङ्कतं च श्रीश्रीधरचरितमहाकाव्यम् । प्रथमः सर्गः। श्रीमान् पार्श्वप्रभुर्जीयात् , जगत्प्रद्योतनो नवः । यस्य स्मरणतोऽप्याशु, प्रणश्यन्ति तमोबजाः ॥ १॥ श्रीविजयचन्द्रभूपतिचरित्रपोयूषसारकासारः । माणिक्याङ्कग्रन्थः, स जयति जगति प्रमोदकरः ॥ २ ॥ तस्य स्वोपज्ञस्य, प्रीतिकृते कृतिजनस्य वक्ष्यामि । दुर्गपदव्याख्यानं, श्रीमान् माणिक्यसुन्दरः सूरिः ॥ ३ ॥ तथाहि यस्मिन्नाभिनरेन्द्रनिर्मलकुलप्रद्योतनोद्योतित. त्रैलोक्ये शुभति प्रभातसमयो जातस्तृतीयारकः । आरोग्यं खलु भास्करादिति वचस्तथ्यं यतो जायते, सोऽयं वाञ्छितसिद्धये भवतु वा स्वामी युगादिप्रभुः ॥१॥ [शार्दूल०) १ क्ये सहसा प्र° A। अत्र स्वोपज्ञव्याख्यायां 'शुभति' पदस्य व्याख्यादर्शनात् 'शुभति' इत्यस्य 'सहसा' इति A आदर्शाधिकृतपाठभेदस्तु काल्पनिकः प्रतिभाति । For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy