SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः ] स्थोपचदुर्मपदम्याख्यालङ्कृतम् । हर्षो यो जीवहत्याभिर्जायते तेन पूर्यताम् । किं तेन क्रियते हेम्ना, त्रुटतः श्रवणो यतः || ३५५ ॥ विना मांसाहुर्ति चित्ते, चेन्न तृप्तिस्तदा स्वयम् | ददे स्वतनुखण्डानि, हुत्वा तावन्ति पावके ।। ३५६ ।। ओमित्युक्ते नृपस्ताभिः स्थिताभिः परितो स्यात् । जुहाव यावद् द्वात्रिंशत्खण्डानि ज्वलितानले || ३५७ ।। अहो ! तावन्महासत्त्वमित्युक्तिमुखराननाः । तदङ्गं विविशुर्विद्याः, सोऽथ सूर्य इवाशुभत् ॥ ३५८ ॥ स्थगीभृन्नीलवन्नीलनलहेमन्तकादयः । प्राप्य श्रीविजया विद्या दीपाद दीपा इवाबभुः || ३५९ ।। For Private And Personal Use Only [ १३१ भूरिभिर्भेरिमाङ्कारैर्जनयन् बधिरं जगत् । विमानाच्छादितव्योमा, सोऽचलद् वैरिणं प्रति ॥ ३६० ॥ वैताढ्यगिरिमाक्रम्य, निर्जितान्तरखेचरः । सैन्यं निवेश्य स प्रैषीद्, द्विषे दूतं स्थंगीभूतम् ॥ ३६१ ॥ गत्वा चमरचञ्चायां, वज्रदादमयं जगौ । राजा विजयचन्द्रस्वामाज्ञापयति मान्यगीः ।। ३६२ ॥ सत्वरं स्वयमागत्य, प्रत्यर्पय मम प्रियाम् । सोढः प्रौढतरोऽप्येकस्तव मन्तुरयं मया ॥ ३६३ ॥ मायाविना स्वया जहे, स्वानुवृत्या प्रिया मम । अहं प्रत्याहराम्येतामपि विश्वस्य पश्यतः || ३६४ ॥ नीलवत् पूर्वजानां च पुर्या चमरचश्चया । गर्वीयसि कथं निःस्वो यथापरविभूषणैः ।। ३६५ ।। राज्यजीवितयोर्वाञ्छा, हृदि ते यदि तद् ध्रुवम् । पुरीं नीलवते देहि, मझं देवीं सुलोचनाम् ।। ३६६ ॥
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy