SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ ] श्री श्रीधरचरितमहाकाव्यम् । [ अष्टमः प्रोचे तं विजयः कस्माद्, भक्तिरेवं विधीयते ? 1 स जगौ गौरवं सर्व, स्वार्थे देव ! यतः शृणु ॥ ३२२ ॥ पुरी चमरचञ्चाsस्ति, वैताढ्ये विद्यया बली । पुरा महाबलस्तत्र, सुत्रामेवाधिपोऽभवत् ॥ ३२३ ॥ खेचरीणां सहस्राणि, परिणिन् स खेचरः । परं संप्राप नापत्यं, दुष्कर्म प्रति कः प्रभुः ! ॥ ३२४ ॥ इतश्च वसुधापीठे, पुरे तिलकसंज्ञया । महेन्द्रोऽभून्नृपस्तस्य, सुन्दरी नामतः पिया || ३२५ ।। अन्येद्युः पूजितो राज्ञा, तदुदिक्षा कुतूहली । आदर्श मुखदर्शिन्या, नारदः कोपितस्तया || ३२६ ॥ ततश्चमरचञ्चायां, महाबलसभां गतः । मुनिः सम्मानितस्तेन, प्रोचे प्राञ्जलचेतसा ॥ ३२७ ॥ अवकेशिष्विव फलं, नापत्यं खेचरीष्वहम् । प्रापं ततस्त्वया क्वापि, द्रष्टा सल्लक्षणा वधूः || ३२८ ॥ दु० व्या० - अवकेशिषु - अफलवृक्षेषु ॥ ३२८ ॥ धरायां तिलकपुरे, महेन्द्रस्य धरापतेः । प्रिया सल्लक्षणाऽस्तीति, मुनिः प्रोच्य ययौ नमः || ३२९ ।। पूरयित्वा रुषं याते, तस्मिन् दध्यौ स खेचरः । पुत्रार्थं तां हरिष्यामि, विद्यायां तूच्छिदा न मे ॥ ३३० ॥ दु० व्या०- उच्छिदा - उच्छित्तिः ॥ ३३० ॥ अथो विमानमारुह्य, तां प्रसह्य नृपः स्त्रियम् । आदाय वलितोऽयोध्यापुरोपरि चचाल सः ।। ३३१ ॥ शक्रावतारतीर्थस्थोपरिष्टाद् यानमस्खलत् । श्रेयो हि प्रतिबध्नाति पूज्यपूजाव्यतिक्रमः ॥ ३३२ ॥ For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy