SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सर्गः स्वोपडदुर्गपदव्याख्यालङ्कृतम्। . [ १०५ ज्ञापयित्वा कनीवृत्तं, पितरौ स व्यजिज्ञपत् । संयमश्रियमादास्ये, सर्वपापक्षयङ्करीम् ॥ ८२ ॥ तावूचतुः कथं वत्स !, वत्सलत्वेन पालितः । वार्द्धके दुःखवाझे तौ, नौवनोत्तारयिष्यसि ॥ ८३ ॥ दु० व्या०-नौ-आवाम् ॥ ८३ ॥ पितरौ दुःखभेदाय, जन्तोश्चारित्रमेव हि। इत्युक्ते तावपि स्थैर्य, भेजतुर्भवभञ्जने ॥ ८४ ॥ पितरौ तां च कन्यां स लात्वा केवलिनं ययौ। भवोद्विग्नानि तान्याशु, संयमं च ययाचिरे ॥ ८५ ॥ उवाच केवली वोऽन्तस्त्रयाणां संयमोऽस्ति भोः!। कस्य नास्तीति तैरुक्ते, कन्याया नेति सोऽब्रवीत् ॥८६॥ अस्या भोगफलं कर्मेत्युक्त चन्दनखेचरः। अपृच्छद् वानरी महँगिरा वदति किं विभो । ॥ ८७ ॥ साधुः प्राह त्वया सेयं, हियते स्म यदा तदा। . वज़दाढखगोऽप्येना, जिघृक्षुरभवत्तराम् ॥ ८८॥ त्वत्तो लातुमशक्तस्तु, स प्रायुक्त प्रतारिणीम् । तया च वानरीवाचा, प्रेरितोऽसि मदन्तिके ।। ८९ ॥ मया हितैषिणा पश्चात् , प्रहितोऽस्ति पुनर्भवान् । विलम्ब स्वं च निन्दन्ती, विलक्षाऽगात प्रतारिणी ॥९॥ प्रहारोऽपि गुणस्तेऽभूदित्युक्ते मुनिना खगः। कन्यां रत्नपुरे प्रेग्य, पितृयुक्तोऽग्रहीद् व्रतम् ॥ ९१ ।। अहं चन्दननामेति, साधुनोक्ते सुलोचना। भ्रातांतरिति प्राप्ता, जल्पन्ती साश्रुलोचना ॥ ९२ ।। For Private And Personal Use Only
SR No.020723
Book TitleShridhar Charit Mahakavyam
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Gyanvijay
PublisherChandulal Lakhubhai Parikh
Publication Year1951
Total Pages199
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy