SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 114811 www.kobatirth.org ज्ञेयम्, न मया भोक्तव्यमित्यभिग्रहो यावज्जीवमभूदिति ||१२१|| Acharya Shri Kailassagarsuri Gyanmandir सुभावपवित्तीए, संपत्तीऽभिग्गहंमि निच्चलया । चेहरकारवणं, तत्थ सयाभोगपरिसुद्धी ॥१२२॥ व्याख्या-'सुहभाव०' तस्यैवं महात्मनो गृहीतमहाभिग्रहस्य शुभभावप्रवृत्तितो ऽतीव चैत्यद्रव्यदित्सावशादुल्लसद्विशिष्टाशयसंयोगाल्लाभान्तरायक्षयोपशमस्तस्माच्च सम्पत्ति :- प्रभूततरविभूतिसम्प्राप्तिस्तस्यां सत्यामपि अभिग्रहे | निश्चलता- निजनियमे दृढता, न तु 'यथा लाभस्तथा लोभ' इति वचनात्तस्य तद्द्द्रव्यविषये स्वप्नान्तरेऽप्युपभोक्तुकामिता । ततः 'चेईहर०' तस्यामेव तगरायां पुरि जिनायतननिर्मापणं विहितम् । 'तत्थ स० ' तत्र चैत्यविधाप संश्चासौ आभोगश्च सदाभोगः शास्त्रपरतन्त्रो विमर्शस्तत्पूर्वं भूम्यादेः परि-समंताच्छोधनं सदाभोगपरिशुद्धिः । यदुक्तम् 'जिणभवणकारणविही सुद्धा भूमी दलं च कट्ठाई । भिइगाणं असंधाणं सासयबुद्धी (वुड्डी) य जयणा य ||१|| अस्याः किञ्चिद्व्याख्या- शुद्धा भूमिर्द्रव्यतोऽस्थिशङ्क्वादिशल्यरहिता, भावतः परानुपतापिनी शुद्धा भूमिः । | दलं काष्टेष्टकादि तत्कारिभ्य उचितक्रयेण क्रीत्वा गवाद्यनाबाधया वाऽऽनीतं । भृतकासन्धानम्- कर्मकराणां वेतनाऽवञ्चनं । स्वाशयवृद्धिः- पश्चात्तापादिदोषरहितत्वेन निजचित्तोत्साहः । यतना च वस्त्रपूतोदकादिकेति । यद्वा तत्र चैत्यविधापने निषदनादौ क्रियमाणेऽपि सदाभोगपरिशुद्धिर्वक्ष्यमाणाशातनापरिहारः ॥१२२॥ For Private and Personal Use Only सूत्रम् 114811
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy