SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन ॥६॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उचितं तेनाद्यवस्थासु योग्यमौषधदानोपदेशादि, करणीयं- विधेयमन्यथा प्राक् पृच्छाया नातिसार्थकता स्यादिति १३ । 'अवि०' अविरुद्धो- लोकलोकोत्तरानिन्दितो व्यवहारो- व्यवसायः १४ । 'काले' मध्याह्नलक्षणे तथा तेन वक्ष्यमाणप्रकारेण जिणपूया मुणिदाणं साहम्मियपूयणा उचियदाणं । परियणसंभालणयं पच्चक्खाणस्स संभरणं ||१|| इत्यादिना भोजनम् - अभ्यवहारः १५ । 'संवरणं०' भोजनानन्तरं संभवद्ग्रन्थिसहितदिवसचरिमादिप्रत्याख्यानस्य ग्रहणम् १६ । 'चेईय०' चैत्यगृहे आगमस्य श्रवणमिति विग्रहः । चैत्यगृहे हि प्राय आगमव्याख्यानं भवतीति । आगमव्याख्यास्थानान्तरोपलक्षणार्थं चैत्यग्रहणम्, न तु तत्रैव यत्यवस्थानसूचकं महाशातनाहेतुत्वात्तत्रावस्थानस्य । एतच्चाग्रे सूत्रकृदेव प्रकटयिष्यति १७ । 'सक्का०' विकालवेलायां जिनबिम्बार्चनम् १८ | 'वंदणा०' गुरूणां वन्दनं-नमस्करणम् । आदिशब्दात्सामायिकादिषड्विधावश्यककरणमनुस्वारोऽलाक्षणिक इति १९ ॥३॥ 'जइवि०' यतीनां स्वाध्यायसंयमवैयावृत्त्यादिभिः श्रान्तानां पुष्टालम्बनेन तथाविधश्रावकादेरपि देहखेदापनोदमिच्छतां विश्रामणम्-अङ्गमर्दनम् २० । 'उचि०' उचितः स्वभूमिकायोग्यो व्यापारस्तमेवाह- नमस्कारचिन्तनादिकः । आदिशब्दाच्छेषाधीतस्वाध्यायगुणनादिपरिग्रहः २१ । 'गिहगमण०' स्वगृहगमनमेतच्च स्वयोगसिद्धत्वेनापार्थकत्वान्निजपरिवारस्य धर्मदेशनाकरणमिति ज्ञापयति २२ । 'विहि०' विधिना शयनं स्वापस्तमेव विधिमाह 'सरणं० ' स्मरणं धर्माचार्यजिनादीनामादिशब्दाच्चतुः शरणादिपरिग्रहः २३ | ||५|| 'अब्बं०' अब्रह्मविषये पुनः प्रायेणेत्यर्थः, विरति :- निवृत्तिः । सा च मोहजुगुप्सातः स्यान्मोहस्य- मोहनीयकर्मणो जुगुप्सा- सद्भूतदोषोद्भावनम् । अतः सैव For Private and Personal Use Only सूत्रम् ॥६॥
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy