SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir P श्राद्धदिन० 11१७५|| o o 'इत्थीइ निलयसयणासणंमि तप्फासदोसओ जइणो । दूसेइ मणं मयणो कुठं जह फासदोसेणं ||१|| सूत्रम् इन्द्रियाणि स्त्रीसत्कनयननासिकादीनि मनोहराणि नावलोकयेत् ४ । तद्दर्शनस्य मोहोदयहेतुत्वात् । यदाह'चित्रेऽपि लिखिता नारी, मनो मोहयते नृणाम् । किं पुनस्तत्स्मितस्मेरविभ्रमभ्रमितेक्षणात् ।।१।।' तस्मात् चित्तभित्तिं न निज्झाए, नारिं वा समलंकियं । भक्खरंपिव दट्ठणं, दिढेि पडिसमाहरे ॥१॥ न स्त्रीणां कुड्यान्तरितानां मोहसक्तानां क्वणितादिध्वनिरमाकर्णयति ५ व्यामोहसम्भवादेव । न पूर्वं गृहस्थावस्थायां क्रीडितं स्त्रीभोगानुभवलक्षणं द्यूतादिलक्षणं वा स्मर्तव्यम् ६ । प्रणीतं स्निग्धं भक्तं न भुञ्जीत धातूद्रेकहेतुत्वात् ७ । अतिमात्रस्य'अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए । वाउपवियारणट्ठा छब्भागं, ऊणगं कुज्जा ||१।।' एवंविधप्रमाणातिक्रान्तस्याहारस्य पानभोजनादेरभ्यवहर्ता न भवेत् ८, तद्भोजने उक्तप्रसङ्गात् । विभूषणाव शरीरोपकरणराढा । सापि स्वपरचित्तविकारहेतृत्वान्न कार्येति ९ नवब्रह्मगुप्तयस्ताभिः सहितमिति । तथा परिग्रहं विवर्जयति, परिगृह्यते सचित्ताचित्तभेदाद द्विभेदोऽपि धर्मोपकरणानि मुक्त्वा निर्विवेकैः स्वीक्रियत इति परिग्रहः । सर्वोपधिप्रमाणं कारणं चागमादवसेयम् । तस्माद्धर्मोपकरणं मुक्त्वान्यत्सर्वं परिग्रहः । स चतुर्धा-द्रव्यतः सर्वद्रव्येषु, क्षेत्रतः सर्वलोके, कालतो भावतो भङ्गकाश्च प्राग्वत् । परिग्रहस्वरूपं च विशेषणद्वारेण सूत्रकृदेवाह-'असमंजसकारय'ति यतः परिग्रहो हिरण्यसुवर्णादिकः छेदभेदाद्यसमञ्जसकारकः । उक्तं च 11१७५॥ oooooooooom Scoocoooooo oooooooooooooooooo TO For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy