SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 1194411 www.kobatirth.org जिनधर्मोत्तमत्वमुपदर्थ्योपदेशमाह तहा सव्वाण धम्माणं, मज्झे होइ सुउत्तमो । धम्मो जिणेहिं पन्नत्तो, अहिंसाए विभूसिओ ||२९१|| व्याख्या- 'तहा सव्वाण०' तथेति दाष्टन्तिकयोजनार्थः । ततो यथा स्वर्णाद्या अनन्तरोक्ता: पदार्था उत्तमत्वेन दर्शिताः, तथा सर्वेषां धर्माणां मध्ये भवति ऐहिकामुष्मिकसुखावहत्वेन धर्मो जिनैः प्रज्ञप्तः । अस्य च सर्वोत्तमत्वे हेतुद्वारेण विशेषणमाह- अहिंसया विभूषितः । इयमत्र भावना न चैनं विनाऽन्यत्र धर्मे मूलमहिंसा सम्यग् ज्ञायते पाल्यते चेत्यतोऽयमेव सर्वोत्तम इति सूत्रपञ्चकार्थः ॥ २९१ || Acharya Shri Kailassagarsuri Gyanmandir ता पमायं महासत्तुं, उज्जमेण वियारिडं । काव्वो अप्पमत्तेहिं, धम्मे तुब्मेहिं उज्जमो ||२९२॥ व्याख्या- 'ता पमायं०' ता इति ततस्तदुत्तमतावगमानन्तरं प्रमादो - मद्यविषयनिद्रादिविकथालक्षणः पञ्चविधः । अज्ञानसंशयादिभेदतोऽष्टविधो वाऽनन्तदुःखजनकत्वान्महाशत्रुस्तम् । उद्यमेन जीववीर्योल्लासरूपेण खड्गेनेव विदार्य कर्तव्योऽप्रमत्तैर्धर्मे युष्माभिरुद्यमो वक्ष्यमाणलक्षणः । तथा चोक्तम् 'केवलं रिपुरनादिमानयं, सर्वदैव सहचारितामितः । यः प्रमाद इति विश्रुतः परा-मस्य वित्त शठतामकुंठिताम् ||१|| For Private and Personal Use Only सूत्रम् 1194411
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy