________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रम्
श्राद्धदिन० ||१५३॥
'न राजदायादमलिम्लुचादि- स्वाधीनवृत्तिर्न च हानिगामी । अभीष्टकर्ता परलोकयायी, तद्रत्नकोशो वर एष धर्मः |१।।' इति । तथा धर्मः सुष्ठ निषेवितः सन् मोक्षमार्गस्य सार्थवाहः, दिव्य इति गम्यम् । यथासंसारकान्तारमदृश्यपारं, सुभीष्ममुत्तार्य निरस्तलोभः । सत्सिद्धिपुर्यां नयते यदेष, धर्मो हि दिव्यः खलु सार्थवाहः ||१।।' इति सूत्रचतुष्टयार्थः ।।२८६।। एवमनेकोपमानैः धर्म स्तुत्वा तस्यैव दृष्टान्तोपदर्शनद्वारेण सर्वोत्तमत्वख्यापनाय सूत्रपञ्चकमाह
जिणधम्माउ य लोगंमि, सारो अन्नो न विज्जए ।
दिह्रता एवमाईया, जओ सुब्बन्ति सासणे ॥२८७।। 'सुव्वंते जिणसासणे' । इति पाठान्तरम् ।
व्याख्या-'जिणधम्माउ०' जिनधर्मात् लोकेऽन्योऽपरः सुमहार्योऽपि पदार्थसार्थः सारः- प्रधानं न विद्यतेनास्ति । कुत इत्याह-दृष्टान्ता एवमादिका यतः श्रूयन्ते शासने- जिनप्रवचने इति ।।२८७।।
अयाईओ जहा लोए, सुवन्नं उत्तमं भवे । ओसहीणं तु सव्वाणं, जहा धन्नं सुओसही ॥२८८।।
||१५३॥
For Private and Personal Use Only