SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 1199811 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- 'चलं जीयं०' चलं- क्षणविनश्वरं जीवितमायुर्बह्वपायाधीनत्वात् । यथाशस्त्रं व्याधिर्विषं च ज्वलनजलभयव्यालवेतालशोकाः, शीतोष्णक्षुत्पिपासागरविवरमरुन्मूत्रविष्ठानिरोधाः । नानाक्षुद्रोपघाताः प्रचुरभुजिरुजः श्रान्तिगात्राभिघाता, विघ्नान्येतानि सद्यश्चिरमपि सहसा जीवितं संहरन्ति ||१|| तथा धनं- गण्यादि । पण्यं चतुर्विधम् । धान्यं तु शाल्यादिशस्यमनेकविधम् । तथा बन्धु इत्यादि, बन्धवोज्ञातयो, मित्राणि - सुहृदस्तेषां च समागमोऽपि कर्मपरतन्त्रत्वाच्चल एव । थरुक्खे व कुटुंबवासे, कालं कियंतंपि खगव्व बंधू । ठाईण गच्छंति चउग्गईसु, चउद्दिसासुं व सकम्मबद्धा ||१|| तथा क्षणेन ढौकते व्याधिः, शरीरस्येति गम्यते । प्रायो दुःषमायामसातबहुलत्वान्मनुष्याणामतस्तच्चलमेवमवगम्यते । तस्मात् कारणाद्विवेकिनां प्रमादो-धर्मानादरलक्षणो न युक्तो-नोचितः कर्तुमिति ॥ २१६ ॥ न तं चौरा विलंपंति, न तं अग्गी विणासए । न तं जूए विहारिज्जा, जं धम्मंमि पमत्तओ || २१७॥ व्याख्या- 'न तं चो०' सुगमं, नवरं 'जं धम्मंमि०' जीवो हि धर्मे प्रमत्तः सन् देवगत्यादिभवविनाशेन यन्मनुष्यत्वप्राप्तिहारणरूपं मूलच्छेदमप्यात्मनः करोति, न तच्चौरादयः सुष्टु दुष्टा अपि कुर्वन्तीति ॥२१७|| एवमुच्यमानोऽपि प्रमादं न मुश्चेत्स किं करोतीत्याह For Private and Personal Use Only सूत्रम् 1199811
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy