SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. सूत्रम् श्राद्धदिन० ॥९२।। Dohodoodhodbodbodoodoodoodbodoodbodbodbodbodbodbodbc. तेनाहं रोदिमि' । धन्यः प्राह- 'सुत्यजा भोगास्तत्र का तुलना' ? तदा सहासं सा प्रोचे-'यद्येवं तर्हि युष्माभिः कस्मान्न त्यज्यन्ते' । धन्येनोक्तमेवमेव । ततस्तत्र समवसृतस्य श्रीवीरस्य पार्श्वे प्रव्रज्यां जग्राह । तं दीक्षितं श्रुत्वा शालिभद्रोऽपि तां जग्राह । ततस्तौ श्रीवीरसार्थे धन्यशालिभद्रर्षी चारित्रं निरतिचारं समाचरन्तौ विहरन्तौ पुनरपि श्रीवीरसार्थे राजगृहं समागतौ । वीरं प्रणन्तुं ययुर्जनाः । मासक्षपणपारणे धन्ययुक्तः शालिभद्रो भिक्षामटितुं प्रभुमापपृच्छे । स्वाम्याख्यन्मातृहस्तात्तेऽद्य पारणं भविष्यतीति ज्ञात्वा पुरान्तः सर्वत्र गत्वा भद्रागृहद्वारे क्षणमेकं तस्थतुः । परं मलक्लिन्नौ केनाप्यनुपलक्षितौ यावत्पुराद् बहिर्निर्गतौ तावताऽद्राक्षीत् धन्या शालिभद्रपूर्वभवप्रसूस्तया च पुरे प्रविशन्त्या दध्ना प्रतिलाभितौ । शालिभद्रोऽप्राक्षीत् 'हे नाथ ! कथं मे मातृतः पारणमजनि' ? सर्ववेदी पूर्वचरितं सर्वमाख्यत् । ततः पारणं विधाय वैभारमूर्ध्नि जग्मतुः । तत्र पादपोपगमं नामानशनं चक्रतुः । अथ भद्रा श्रेणिकयुक्ता स्वामिनं नत्वा ततस्तत्र गत्वा तौ धन्यशालिभद्रर्षी नतो, बहविलापं कुर्वन्तीं दृष्ट्वा नृपस्तामूचे-'किं हर्षस्थाने विषीदसि, यतः पूर्वं दानवीरो भोगवीरश्च, साम्प्रतं तपोवीरः । यस्येशः पुत्रः सर्वजगज्ज्येष्ठः जगद्गुरुः । ततः पवित्रीकृतं भूतलं त्वया, तेन विषादं वृथा मा कृथाः' । सा नृपश्च तौ नत्वा गृहं जगाम । विधायानशनं विपद्य च तौ महर्षी सर्वार्थसिद्धे सुरोत्तमावहमिन्द्रौ जायेताम् । तत्र त्रयस्त्रिंशत्सागरोपमाणि यावत् सौख्यमनुभूय विदेहे समुत्पद्य प्रव्रज्य च शिवमेष्यतः । ॥ इति धन्यशालिभद्रकथा ।। कृतपुण्यस्य कथा त्वियम् bodoosboorooooooodoodhonborosco.oronbone ॥२२॥ For Private and Personal Use Only
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy