SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० ॥९१॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दत्तं । धात्रीभिर्लाल्यमानो यौवनं प्राप्तः । तत्रत्य श्रेष्ठिभिर्द्वात्रिंशन्निजकन्यकास्तस्य परिणायिताः । ताभिः समं यथासुखं स रेमे । अथ श्रेणिकराज्ञः सोमश्री, शालिभद्रस्य स्वसा सुभद्रा, कुसुमपालस्य पुष्पवतीति पुत्र्य एकदिनजातत्वात् परस्परं सख्योऽभूवन् । आत्मभिः पतिरेक एव करिष्यत इति पुष्पवत्या सोमश्रियाः पुरः (उक्तम्), तया च राज्ञे विज्ञप्तम् । ततः श्रेणिकेन तिस्रोऽपि धन्यस्य परिणायिताः । धन्योऽपि भोगान् बुभुजे । स ताभिः सह गवाक्षे रममाणः पितरावद्राक्षीत् । तौ पितरावाकार्य सद्वस्त्राभरणैश्च भूषयित्वा सभार्योऽसौ प्रणनाम । कुतोऽत्रागमनं भवताम् । ताभ्यामुक्तं-`तव राज्यं श्रुत्वा ते भ्रातरस्त्रपमाणाः पुराद्बहिः स्थिताः सन्ति । ततो धन्योऽपि तेभ्यः पृथक् पृथक् ग्रामान् ददौ । गोभद्रोऽथ श्रीवीरपार्श्वे दीक्षामासाद्य स्वर्गलोकमवाप । प्राच्यपुण्यप्रकर्षाच्छालिभद्रस्य सोऽमरो वात्सल्यलालसोऽभूत् । ततस्तस्य प्रियायाः पादप्रोञ्छनार्थं भद्रया रत्नकम्बलग्रहणादि सर्वं प्रसिद्धमेव । इदानीमुद्याने धर्मघोषसूरिरागात् । तदुपदेशं श्रुत्वा संसारं त्यक्तुकामः 'भगवन् केन कर्मणाऽङ्गिनामन्यो स्वामी न स्यादिति ́ पृष्टे सूरिरुचे- ये दीक्षां गृह्णन्ति ते नाथाः सर्वदेहिनां भवन्ति । शालिभद्र इति श्रुत्वा व्रतं गृहीतुकाम: ``नैव प्रमाद्यमत्रार्थे' इत्युक्तः सूरिणा । ततो गृहें गत्वा निजाम्बामूचे । मातरहं व्रतं ग्रहीष्यामीत्युक्ते माताह-'वत्स ! दिव्यभोगैर्लालितस्त्वं, दुष्करं व्रतं कथं ग्रहीष्यसि ? तद्ग्रहणं तस्य श्रुत्वा सुभद्रा शालिभद्रस्य स्वसा धन्यपत्नी रुदती धन्येन पृष्टा सती वदति- 'मम भ्राता शालिभद्रः सौख्यानि मुक्त्वा व्रतेच्छुस्तुलनां कुर्वन्नस्ति For Private and Personal Use Only सूत्रम् ॥९१॥
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy