SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्राद्धदिन० 112911 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- 'वत्थं०' वस्त्रादीनां तावत्स्वरूपं प्रमाणं ग्रहणकारणं च किञ्चिदुच्यते, तत्र वस्त्रमाच्छादनं क्षौमिकौर्णिककल्पत्रयादिरूपम् । एषां प्रमाणम् 'कप्पा आयप्पमाणा, अड्ढाइज्जा य वित्थडा हत्था । दो चेव सुत्तिआ तु उण्णिओ य तइओ मुणेयव्वो ||१|| कारणं पुनः'तणगहणाऽनलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिट्ठे कप्परगहणं गिलाणमरणट्ठया चेव ॥२॥ तथा पात्रं द्विधा पतद्ग्रहो मात्रं च । 'पुत्य' मिति पुस्तकम् । कम्बलमिति चिलिमिलीत्यादिरूपम् । पादप्रोञ्छनंरजोहरणं । दण्डः (बाहुप्रमाणः) । अर्धतृतीयहस्तप्रमाणः संस्तारकः, शय्या तु सर्वाङ्गीणा । अन्यन्मुखवस्त्रिकादिकं | सर्वमेवोपकरणं उद्गमादिदोषरहितं तु सुसंयतेभ्यः श्रावको ददातीति ॥१७८॥ किमित्येतावान् सुपात्रदाने यत्न इत्याहजओ सुपत्तदाणे, कल्लाणं बोहि उत्तमा । देसिया सुहविवामि, अक्खाणा दस उत्तमा ।।१७९ ॥ व्याख्या-'जओ सुप० ́ यतो-यस्मात् कारणात्सुपात्रदानेन कल्याणं सुर-मनुष्येषु विशिष्टविशिष्टतरसुखाऽनुभवनम् । तथा बोधिरुत्तमा-प्रतिजन्मोत्तमधर्मप्राप्तिश्च स्यादिति शेषः । अस्मिंश्चार्थे दर्शितानि सुखविपाके-एकादशाङ्गस्य विपाकश्रुतनाम्नः सुखविपाकारव्ये द्वितीयश्रुतस्कन्धे आख्यातानि दशाध्ययनरूपाणि उत्तमानि-प्रधानानि ||१७९|| तान्येवाह For Private and Personal Use Only सूत्रम् ॥८१॥
SR No.020719
Book TitleShraddhdin Krutya Sutram
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherArihant Aradhak Trust
Publication Year2002
Total Pages218
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy