SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir mamm 27SSESSE शत्रुञ्जय कल्पवृ० ॥ ७४ ॥ स्थानभ्रंश-सखीविवाहगमनं नृत्यप्रवासादयो, व्यापाराः खलु शीलजीवित्तहराः प्रायः सतीनामपि ॥ १२ ॥ ततोऽन्येधुनिशि श्रेष्ठी तस्य वृक्षस्य कोटरे । पत्न्योः पूर्व समेत्यास्थात् तयोश्चरितमीक्षितुम् ॥ १३ ॥ . ते गेहिन्यौ समारूढे तस्मिन् महीरुहे द्रुतम् । व्योमाध्वना गते स्वर्ण-द्वीपे लक्ष्मीपुरान्तिके ॥ १४ ॥ सरःपालौ तरं न्यस्य तत्पुरं वीक्षितुं तदा । जग्मतुः श्रेष्ठिनः पत्न्यौ निर्गतोऽथ स कोटरात् ॥ १५ ॥ इतः तत्पुरवास्तव्यः श्रेष्ठी श्रीदः कुलामरीम् । आरराध स्वनन्दिन्या वरार्थ पूजयन् सुमैः ॥१६॥ तया सन्तुष्टया प्रोक्तं भो ! श्रेष्ठिन् पञ्चमे दिने । सरःपालौ निशामध्ये यः समेति नरो वरः ॥१७॥ तस्मै त्वया प्रदातव्या तनया सुरसुन्दरी । विचारोऽत्रत्वया श्रेष्ठिन् ! विधातव्यो न चेतसि ॥ १८ ॥ * यतः-जं जेण किंपि विहियं सुहं व दुक्खं व पुव्वजम्मम्मि । तं सो पावइ जीवो वच्चइ दीवंतरं जइवि ॥१९॥॥ श्रुत्वैतद्वचनं श्रेष्ठी सरःपालौ समाययौ । वराकारं वरं वीक्ष्य श्रेष्ठी च मुमुदेतराम् ॥ २० ॥ तमानीय गृहे सद्यः श्रेष्ठी प्राहेति सगिरा । गृहाणोद्वाहतः (मे) पुत्री-मिमां त्वं सुरसुन्दरीम् ॥ २१ ॥ ततो विवाहवस्त्रादि-भूषितो भीमनगमः । माहरे श्रीदहस्तां तां गृहीत्वा समुपाविशत् ॥ २२ ॥ इतस्ते ततप्रिये तत्राऽऽगते वीक्ष्य वरं वरम् । जजल्पतुर्वरो ह्येष विद्यते स्वपतेः समः ॥२३॥ भ्रमद्भिर्भूतले तुल्य-रूपा नार्यो नरा अपि । वीक्ष्यन्ते तेन न भ्रान्तिः कार्याऽऽवाभ्यामिहाधुना ॥ २४ ॥ AGELDELSESEISTICS292929ESES m mmmmmmmm SESESSESES2 ॥ ४ ॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy