________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शत्रुजय कल्पवृ०
॥ ७० ॥
ISITASSESSPSS22SB
भूरिसङ्घयुतः श्रेष्ठी गत्वा श्रीसिद्धपर्वते । पञ्चभिर्मणिभिः पूजां चकाराऽऽदिजिमेशितुः ॥ १३ ॥ तदा तुष्टो जगौ यक्षः श्रेष्ठिन् ! मार्गय वाञ्छितम् । श्रेष्ठथवग् विद्यते सर्व जिनेन्द्राजिप्रसादतः ॥ १४ ॥ ततो यक्षो मणीन् पश्च विंशतिकोटिमूल्यकान् । प्रददौ श्रेष्ठिने किं किं जायते न जिनार्चनात् ? ॥१५॥ विक्रीय तान् मणीन् श्रेष्ठी स्फारं जिनवरालयम् । कारयामास तत्राऽऽदि-जिनबिम्बमतिष्ठिपत् ॥१६॥ धनश्रेष्ठी तदा ध्यायन् जिनेशं प्रथमं मुदा । प्राप्य ज्ञानं ययौ मुक्ति-पुर्या क्षीणाघसन्ततिः ॥१७॥ इतः पुण्यपुराधीशो लौहित्यो धरणीधरः । राज्ये न्यस्याऽङ्गजं दीक्षा-मलात् कोटिजनान्वितः ॥१८॥ भणितद्वादशाङ्गीकः प्राप्त रिपदः क्रमात् । कोटिसाधुयुतः शत्र-जये तीर्थे समागमत् ॥१९॥ जिनागारे जिनागारे नत्वा तीर्थङ्कराधिपान् । लौहित्यर्षिः पुनर्मल-नाथं स्तौति च नौति च ।। २०॥ धनेन श्रेष्ठिना नाभि-पुत्रसमनि कारिते । लौहित्यर्षिर्ययौ देवं नन्तुं भूयिष्ठसाधुयुम् ॥ २१ ॥ श्रीयुगादिजिनस्याग्रे ध्यानं तस्य वितन्वतः । बभूव केवलज्ञानं हेमाजं निर्जरैः कृतम् ॥ २२ ॥ तस्मिन् हेमाम्बुजे ज्ञान्यु-पविश्य धर्मदेशनाम् । तथा चक्रे यथा सर्वे साधवो ज्ञानिनोऽभवन् ॥ २३ ।। लौहित्यादियतीन् सिद्धि-गतान् ज्ञात्वा हरिजंगौ । लौहित्याह्वमिदं तीर्थ नाम्ना जयतु भूतले ॥ २४ ॥
TE225252525252525227
---
-
-
-
For Private and Personal Use Only