________________
Shri Mahavir Jain Aradhana Kendra
___www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शत्रुजय
कल्पवृ०
॥६९॥
BSSESSEEISESSESISESESSES
॥श्री लौहित्यनामोपरि लौहित्यर्षिकथा ॥ लौहित्यादियतीन् भूरीन् दृष्ट्वा सिद्धिपुरीगतान् । लौहित्याां व्यधा-दिन्द्रः श्रीमसिद्धमहीभृतः ॥१॥ पझेपुरे धनः श्रेष्ठी धर्म श्रुत्वाऽन्तिके गुरोः । अदत्तं लाति नो कस्य तृणमात्रमपि क्वचित् ॥२॥ स्थानाधिष्टायकं देव-मनुज्ञाप्यैव सन्ततम् । श्रेष्ठी तिष्ठति भुङ्क्ते च करोति कायिकामपि ॥३॥ नाऽदत्तं लाति कस्यापि धन इत्युदिते सति । शक्रेणैकः सुरचाल-यितुं तं निर्ययौ दिवः ॥ ४॥ पातयित्वा बहुं लक्ष्मी मार्गे स निर्जरोऽनिशम् । यदा चालयितुं नेश-स्तदेति प्रोक्तवान् स्फुटम् ॥५॥ यादृशो वर्णितो नाकि-पतिना तादृशः स्फुटम् । अतो रत्नद्वयं दत्त्वा सुरलोकं समीयिवान् ॥६॥ श्रेष्ठयन्येधुर्वहिर्भूमौ देहचिन्ताकृते गतः । यत्र यत्रानुजानाति स्थानाधिष्ठायकं प्रति ॥७॥ तत्र तत्र जगौ स्थाना धिष्ठाता निर्जरः स्फुटम् । श्रेष्ठिन् ! माऽत्रोपविश त्वं गच्छाऽन्यत्र यथेप्सितम् ॥ ८॥ एवं संन्ध्याक्षणं यावद् भ्रमन् श्रेष्ठी बनान्तरे । तं यक्षं वञ्चयित्वाऽऽशु कायिकामकरोल्लघु ॥९॥ यक्षः प्राहाऽद्य तुष्टोऽस्मि याचस्व त्वं यथेप्सितम् । श्रेष्ठयवग् यदि मे धर्मो विद्यते किं तदा नहि ? ॥१०॥ अलोभिनं तदा श्रेष्ठि-राजं मत्वा मणीन् दश । कोटीमूल्यान् वितीर्यावग् यक्षो ध्येयोऽस्म्यहं सदा ॥ ११ ॥ गते यक्षे मणीन् लात्वा समेत्य श्रेष्ठिरागृहम् । पञ्च रत्नानि विक्रीय जनेभ्यो राजमानितः ॥ १२ ॥
STATISSTSESTSSZSSTEISSTE
।
For Private and Personal Use Only