SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धरणीभूषणे नाम्ना पुरे चन्द्रमहीपतेः । पत्नी प्रेमवती पुत्र प्रासूत शुभवासरे ॥२॥ कारयित्वा महिपालः सूनोर्जन्मोत्सवं महत् । धर्मनन्दन हत्याह्वां ददौ सज्जनसाक्षिकम् ॥३॥ द्वितीयो नन्दनो दामो-दराहोऽजनि तस्य तु । द्वावेव पाठितौ धर्म-कर्मशास्त्राणि भूरिशः ॥४॥ क्रमाच्चन्द्र कुसङ्गत्या द्यूतादिसक्तमानसः । राज्यचिन्तां विसस्मार चित्तादधर्ममर्त्यवत् ॥ ५ ॥ शत्रुजय न क्रमात समागते तत्र द्विट्सैन्ये प्रबले सति । धर्मपुत्रो बलं लात्वा युद्धं कर्तुं समुत्थितः ॥६॥ कल्पवृ० तथा युद्धं कृतं धर्म-नन्दनेनाऽरिभिः समम् । यथा दिशोदिशं भग्ना नेशुनिश्शेषवैरिणः ॥७॥ ततस्तत्र महानन्द-सरिराट् समुपागमत् । पुत्रयुक्तो नृपो धर्म-माकर्णयितुमीयिवान् ॥ ८॥ तदेति गुरुभिधर्म-देशना विहिताऽऽदरात् । धर्मेण लभ्यते राज्यं कल्याणकमला पुनः ॥९॥ धुतादिव्यसनं यस्तु सेवते मानवः खलु । स एव लभते दुःख-मिहामुत्र निरन्तरम् ॥१०॥ H * यतं सर्वापदां धाम द्यूतं दीव्यन्ति दुधियः । द्यूतेन कुलमालिन्यं द्युताय श्लाध्यतेऽधमः ॥११॥॥ * वैर वैश्वानर-व्याधि-वाद-व्यसनलक्षणाः । महानर्थाय जायन्ते वकाराः पञ्च वर्द्धिताः ॥१२॥ ॥ श्रुत्वेति भूपतिस्त्यक्त्वा यतस्य व्यसनं तदा । राज्यं वरोत्सवं वृद्ध-सूनवे दत्तवान् मुदा ॥१३॥ युवराजपदं दत्त्वा लघुपुत्राय भूपतिः । धर्मसेनगुरूपान्ते जग्राह संयम तदा ॥१४॥ SESESTSERSTITIISSESTA PSSISTSESCASSESSELSL5258 For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy