SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.ora शत्रुजय कल्पवृ० ॥६३ TSESESSESSES2252SSESTE ॥ श्री सहस्रकमलोपरि रणवीरभूपकथा ॥ मेलयित्वा बहुं सङ्घ गत्वा शत्रजयाऽचले । रणवीरो ददौ नाम सहस्रकमलाभिधम् ॥ १ ॥ कल्याणकोटिनगरे कल्याणधरणीपतिः । कल्याणिन्यभिधा पत्नी शीलभूषणशालिनी ॥२॥ रणवीराभिधः पुत्रो रणनिर्जितशात्रवः । विनीतोऽभूद् भृशं माता-पित्रोः सेवनतत्परः ॥३॥ निर्गच्छन्नन्यदा पुर्या बहिः शण्डद्वयं दृढम् । मिथो युध्यन्तमैक्ष्योर्वी-पतिर्दध्याविदं हृदि ॥४॥ इदं शण्डद्वयं पीनं जीविष्यति चिरं ननु । तेन केलिकृते स्वीय-सदने स्थाप्यते मया ॥५॥ गत्वोद्याने समागच्छन् पश्चाच्छण्डद्वयं मृतम् । दृष्ट्वा महीपतिर्दध्यौ संसारासारतामिति ॥६॥ * आयुरितरङ्गभङ्गुरतरं श्रीस्तूलतुल्यस्थितिः, तारुण्यं करिकर्णचञ्चलतरं स्वप्नोपमाः सङ्गमाः । ॥ यद्वान्यद् रमणीमणीप्रभृतिकं वस्त्वस्ति तच्चास्थिरं, विज्ञायेति विधीयतामसुमता धर्मः सदा शाश्वतः ॥ ७ ॥ इत्याद्यनित्यतां ध्यायन गत्वोद्याने महीपतिः । स्वयम्प्रभगुरूपान्ते प्रव्रज्यामग्रहील्लघु ॥८॥ तदाऽभ्येत्य पितुः पार्श्वे रणवीरो जगाविति । तात ! राज्यमिदं कस्या-धारे सम्प्रति वर्त्तते ॥९॥ अहमप्यस्मि ताताऽद्य कस्याधारेऽधुना वद । त्वां विना निखिलं राज्यं विनश्यति न संययः ॥१०॥ राजाऽऽचष्ट न मेऽसि त्वं नाहं तव कदाचन । एकोऽस्म्यहं निराधारो निष्पुण्यो नन्दनोत्तम ! ॥ ११ ॥ ESTSET25252SE2525252509 । ६३ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy