SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir शत्रुजय कल्पवृ० ॥६० SEASESSESSISISESSESE स्त्री प्राह यदि ते शक्ति-Lध्यस्वाऽमा मया तदा । तदा भूपो न्यहँस्तां च खरगेन निर्दयं दृढम् ॥१३॥ ततः सा चाऽर्जुनी भूत्वा भाषते स्म नृभाषया । कथं गो-स्त्रीवधात् पापात छुटिष्यसि नरेश्वर ! ॥१४॥ * यतः-तावद् बलं महस्ताव-तावत् कीर्तिरखण्डिता । यावत् पुराकृतं पुण्यं नो म्लानिमधिगच्छति ॥ १५॥ ॥ * पुण्यमेव प्रमाणं स्याद-ङ्गिनां शुभकर्मभिः । क्षीणतेजाः कियत्कालं तपत्यपि प्रभाकरः ॥ १६ ॥ * पुण्यैः सम्भाव्यते सर्व सुखदायि सदाऽऽयतिः । तदेव हीनपुण्यस्य विपवत् दुःखदायकम् ॥ १७॥॥ एवं प्रोक्तो यदा राजा व्यरमन्न ततोद्य(घ्न)तः । तदोत्पाटय महारण्ये मुक्तस्तया सुरस्त्रिया ॥१८॥ बुभुक्षितस्तदा हिंसन् जीवान् तृपादितो भृशम् । राजापि सहतेऽत्यन्तं दुःखं नरकसन्निभम् ॥१९॥ तदैको हरिरागच्छन् सन्मुखं भूभुजा हतः । ततश्चैको मृगो जघ्ने मृगीव पवनाशनः ॥२०॥ ततो राजा वजन्नेकं साधुं दृष्ट्वाऽतिरोषतः । जघानाऽथाऽसिना ताबद् यावत् प्राणा गता द्रुतम् ॥२१ ।। ततो भ्रमन् गतः शत्रु-जयाद्री वीरभूपतिः । स शत्रुञ्जयमाहात्म्य-मश्रृणोद् यतिसन्निधौ ॥ २२ ॥ • अकर्त्तव्यं न कर्त्तव्यं प्राणैः कष्ठगतैरपि । सुकर्त्तव्यं तु कर्त्तव्यं प्राणैः कष्ठगतैरपि ॥२३॥ ॥ मयूर-सर्प-सिंहाद्या हिंस्रा अप्यत्र पर्वते । सिद्धाः सेत्स्यन्ति सिध्यन्ति प्राणिनो जिनदर्शनात् ॥२४॥ वज्रलेपायितेः पाप-जन्तुरत्यन्तदुःखभाग् । तावद् यावन्न सिद्धाद्रि-मधिरुह्य जिनं नमेत् ॥२५॥ BELSSSSSSSESSES For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy