SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ॥ मा जर शत्रुञ्जय कल्पवृ० ॥ ५९॥ SSSSSSSSSSSS ॥ श्री अष्टोत्तरशतकूटनामोपरि वीरतृपकथा ॥ वीराह्वो भूपतिभूरि-पापकृत सिद्धभूभृतः । अष्टोत्तरशतकूटं नाम व्याणयन्मुदा ॥१॥ वीरपुर्या नृपो वीरः कुर्वन् पापं निरन्तरम् । न मन्येत गुरुं देवं मातृपितृनपि क्वचित् ॥२॥ पापद्धि परनारी-स्व-हरणादिपापकृत् सदा । वारितोऽपि क्षणं नैव विरराम स भूपतिः ॥३॥ एकदाऽन्यधनं हृत्वा यावदागात् स्ववेश्मनि । भूपस्तावद, श्लोकं शुश्राव वनवर्त्मनि ॥४॥ * धर्मादधिगतैश्वर्यो धर्ममेव निहन्ति यः । कथं शुभायतिः स्वामि-द्रोहकस्येह तस्य तु ॥ ५॥ ॥ अमुं श्लोकार्थमुवींशो ज्ञात्वा दध्याविदं हृदि । भूरिपापकृतो मे न छुट्टनं हि भविष्यति ॥६॥ तस्यैनसश्छिदे वह्नौ प्रविशामि जलेऽथवा । ध्यायन्नेवं ययौ यावद् बहिः पुर्या नरेश्वरः ॥७॥ तदाऽकस्मात् समायाता गौ नन्ती मनुजान बहून् । हताऽसिना महीशेन तेन वीरेण निर्दयम् ॥८॥ तदा काचित् समेत्य स्त्री कत्तिकां दधती करे । जगौ रे नृप ! किं जघ्ने गौरियं भवता मुधा ॥९॥ आरब्धपापशुद्धिना हता गौरववर्जिता । यद्यस्ति कापि ते शक्तिस्तद् युध्यस्व मया सह ॥१०॥ श्रुत्वैतद् वनिता-प्रोक्तं कठोरं मेदिनीपतिः ! नारी प्रति जगावुच्चै-स्तरं चोत्पाटयनसिम् ॥११॥ भवन्ती युवती काचित् कदलीदलकोमला । अहं तु क्षत्रियः शूरः शस्त्रशास्त्रविशारदः ॥ १२ ॥ IESTSSESSESES255255255&ST. ॥५९॥ For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy