SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir H शत्रुञ्जय कल्पवृ० Sas2S2TSSISTE सौभाग्यासुभगत्वसङ्गमजुषोस्तुल्येऽपि नृत्वेऽन्तरं, यत्तत् कर्मनिबन्धनं तदपि नो जीवं विना युक्तिमत् ॥१२॥ * भवारण्यं भीमं तनुगृहमिदं छिद्रबहुलं, बली कालश्चौरो नियतमसिता मोहरजनी । के गृहीत्वा ध्यानासिं विरतिफलकं शीलकवचं, समाधानं कृत्वा स्थिरतरदृशो जाग्रत जनाः ! ॥१३ ।। * तैलोदकायोऽनलवारिदुग्ध-लोहोल्लसन सिद्धरसाः क्रमेण । सद्धर्मरङ्गो भविनां बहूनां दृष्टान्तभावं बिभराम्बभूव ॥ श्रुत्वा गुरुवचः सर्व-पत्नीयुग जिष्णुनन्दनः । प्रबुद्धः पितरं पर्य-वसाय्य विनयान्वितः ॥१५॥ ललौ दीक्षां गुरूपान्ते संसाराम्भोधितारिणीम् । राजा तदा व्यधात् पुत्र-दीक्षोत्सवमनुत्तरम् ॥ १६ ॥ प्रवर्तिन्याः समीपे ताः सहस्रपत्रवल्लभाः । मुक्ताः केवलिना शुद्ध-चारित्राराधनाकृते ॥ १७ ॥ पठित्वैकादशाङ्गानि सूत्रार्थाभ्यां नरेन्द्रसूः । प्राप्तसूरिपदो भव्यान् बहून् प्राबोधयत् क्रमात् ॥ १८ ॥ विहरन् सूरिराट् शत्र-जये गत्वा सुसाधुयुग । शुक्लध्यानेन सम्प्राप केवलज्ञानमुत्तमम् ॥१९॥ सूरेः सहस्रपत्रस्य कुर्वन् ज्ञानोत्सवं हरिः । सहस्रपत्रमम्भोज रैमयं व्यरचन्मुदा ॥२०॥ तदा तत्र यतीनां तु कोटेानमनुत्तरम् । उत्पन्नं धवलध्यान-योगात् कर्मक्षयात् किल ॥ २१ ॥ हृष्टः शक्रस्तदा शेष-ज्ञानिनां रैमयान्यपि । चक्रे सहस्रपत्राण्यु-पवेशाय पृथक् पृथक् ॥ २२ ॥ प्रत्येकमखिलज्ञान-वतां पार्श्वे सुराधिपः । धर्मोपदेशमाकर्ण्य स्वान्तहृष्टोऽभवद् भृशम् ॥ २३ ॥ SZSPSSPSSESESZISZS52SSTSEE For Private and Personal Use Only
SR No.020701
Book TitleShatrunjay Kalp
Original Sutra AuthorN/A
AuthorAmrendrasagar, Mahabhadrasagar
PublisherJain Agam Mandir Samstha
Publication Year1994
Total Pages581
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy